पृष्ठम्:संस्काररत्नमाला (भागः २).pdf/१२३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
[वैश्वदेवाधिकारिनिर्णयः]
९३१
संस्काररत्नमाला ।

णाश्वलायनवचनानुरोधेन [विभक्ता] विभक्तसाधार[१]ण्यस्यैव वक्तुमुचितत्वात् । विभक्तानामित्यस्यानुवादकत्वेन संकोचकत्वायोगात् । "अविभक्तेषु संसृष्टेष्वेकेनापि कृतं भवेत्" इति व्यासोक्तेश्च । अतः पाकैक्य ए[२]वाविभक्तानां यज्ञैक्यम् । न चैवं कदाचित्पाकभेदे भेदापत्तिः । वसतामित्यनेन बहुकालिकपाकैक्योक्तेः । "यद्येकस्मिन्काले बहुधाऽन्नं पच्येत गृहपतिर्म(म)हानसादेव बलिं हरेत् (कुर्वीत)" इति पूर्वोदाहृतगोभिलवचनाच्च ।

आश्वलायनः--

"वसतामेकपाकेन विभक्तानामपि प्रभुः ।
एकस्तु चतुरो यज्ञान्कुर्याद्वाग्यज्ञपूर्वकान्" इति ॥

 वाग्यज्ञो ब्रह्मयज्ञः, तत्पूर्वकानित्यतद्गुणसंविज्ञानो बहुव्रीहिः । तेन देवयज्ञादीनामेवैककर्तृकता न ब्रह्मयज्ञस्य । स तु पृथगेव का[३]र्यः । एतत्सर्वमेक[४]ग्रा[५]मवासविषयम् ।

 ग्रा[६]मान्तरे तु स एव विशेषमाह--

"अविभक्ता विभक्ता वा पृथक्पाका द्विजातयः ।
कुर्युः पृथक्पृथग्यज्ञान्भोजनात्प्राग्दिने दिने" इति ॥

 ([७] न चैतदप्येकगृहविषयमस्त्विति वाच्यम् । 'यद्येकस्मिन्काले बहुधाऽन्नं पच्येत गृहपतिर्म(म)हानसादेव बलिं हरेत् (कुर्वीत)' इति गोभिलवचनेन विरोधापत्तेः ।

आश्वलायनस्मृतिः--

"एकपाकाशिनः पुत्राः संसृष्टा भ्रातरोऽपि च ।
वैश्वदेवं न ते कुर्युरेकः कुर्यात्पितैव हि ॥
वैश्वदेवं क्वचित्कर्तुं न शक्नोति पितैव हि ।
पितुरेवाऽऽज्ञया कुर्यात्पुत्रो भ्राता परोऽपि हि ॥
एकान्नाशिषु पुत्रेषु भ्रातृष्वेकत्र सत्सु च ।
तत्रैको वैश्वदेवः स्यात्" इति । )

स्मृतिसमुच्चये--

"वैश्वदेवः क्षयाहश्च महालयविधिस्तथा ।
देशान्तरे पृथक्कार्यो दर्शश्राद्धं तथैव च" इति ॥

 ( [८]एतच्च ज्येष्ठकनिष्ठभ्रातृसाधारणं द्रष्टव्यम् । पुत्रेणापि ग्रामे ग्रामान्तरे वा पाके सति पृथक्कार्य एव ।


  1. च. रणत्वा ।
  2. ख. एव वि ।
  3. च. भवति ।
  4. च. कगृहवा ।
  5. ङ. ग्रामैकगृहवा ।
  6. च. गृहान्तरे ।
  7. धनुश्चिह्नान्तर्गतो ग्रन्थो नास्ति ख. ङ. पुस्तकयोः ।
  8. धनुश्चिह्नान्तर्गतो ग्रन्थो नास्ति ख. ङ. पुस्तकयोः ।