पृष्ठम्:संस्काररत्नमाला (भागः २).pdf/१२२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
९३०
[वैश्वदेवाधिकारिनिर्णयः]
भट्टगोपीनाथदीक्षितविरचिता--

वैश्वदेवाख्यं कर्म दिवा द्विस्तथा रात्रावपि द्विर्न कर्तव्यम् ।

"धर्मविन्नाऽऽचरेत्स्नानमाह्निकं च पुनः पुनः ।
तर्पणं ब्रह्मयज्ञं च वैश्वदेवं च नाऽऽचरेत्" इति विष्णुस्मरणात्[१]

 ([२]रागतः प्राप्तस्यात्र निषेधः । )

 वैश्वदेवबलिहृती सायं प्रातः, पञ्चयज्ञां(ज्ञा)स्तु दिवैव ।

 यथाऽऽह जमदग्निः--

"वैश्वदेवं दिवा रात्रौ कुर्याद्बलित्दृर्ति तथा ।
महतः पञ्च यज्ञांस्तु दिवैवेत्याह धर्मवित्" इति ॥

 येषां शाखिनां ब्रह्मयज्ञव्यतिरिक्तानां महायज्ञानां वैश्वदेवे बलिहृतौ चान्तर्भावः, तेषां दिवैव वैश्वदेवाख्यं कर्म न रात्रौ । यदि स्वशाखायां कालद्वयकर्तव्यतायां विधानं लिङ्गं[३] वा नास्ति । अस्ति च स्वशाखायां सू[४]त्रे नक्तमेवोत्तमेन वैहायस इति रात्रावपि वैश्वदेवकर्तव्यतायां विधानम्[५] । ये भूताः प्रचरन्ति दिवा नक्तं बलिमितिमन्त्रे लिङ्गे च । अतो[६] रात्रावपि भवतीति बोध्यम् । देवेभ्यः स्वाहेत्यादय एव देवयज्ञाः, वैश्वदेवस्तु भिन्न एवेति मते वैश्वदेव एव सायं भवति न तु देवेभ्यः स्वाहेत्यादियज्ञत्रयमिति ज्ञेयम् ।

अथाधिकारिनिर्णयः ।

 तत्र नारदः--

"भ्रातॄणामविभक्तानामेको धर्मः प्रवर्तते ।
विभागे सति धर्मोऽपि भवेत्तेषां पृथक्पृथक्" इति ॥

 व्यासः--

होमाग्रदानरहितं न भोक्तव्यं कदाचन ।
अविभक्तेषु संसृष्टेष्वेकेनापि कृतं कृतम्" इति ॥

 एकेन मुख्येन ज्येष्ठेनेति यावत् । कृतमित्यनन्तरं भवेदिति शेषः ।

स्मृत्यन्तरेऽपि--

"सर्वैरनुमतिं कृत्वा ज्येष्ठेनैव तु तत्कृतम् ।
द्रव्येण[७] चाविभक्तेन सर्वैरेव कृतं भवेत्" इति ॥

 शाकलः--

"एकपाकेन वसतामेकं देवार्चनं गृहे ।
वैश्वदेवं तथैवैकं विभक्तानां गृहे गृहे" इति ॥

 एकपाकेन वसतामविभक्तानामित्यर्थ इति कश्चित् । तन्न । अस्य[८] वक्ष्यमा


  1. क. ख. ङ. त् । वै ।
  2. एतद्वाक्यं क. पुस्तके टिप्पण्या लिखितमस्ति ।
  3. च. ङ्ग भवेत् । अ ।
  4. क. ख. सूत्रं ।
  5. ख. ङ. म् । अ ।
  6. ङ. तो द्विरपि ।
  7. च. ण वाऽवि ।
  8. च. स्य वि ।