पृष्ठम्:संस्काररत्नमाला (भागः २).pdf/१२४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
९३२
[वैश्वदेवाधिकारिनिर्णयः]
भट्टगोपीनाथदीक्षितविरचिता--

"यदि स्याद्भिन्नपाकाशी ग्रामे ग्रामान्तरेऽपि च ।
वेश्वदेवं पृथक्कुर्यात्पितर्यपि च जीवति" इति शाकलोक्तेः ॥)

 यस्य तु ज्येष्ठेनाकृते वैश्वदेवेऽन्नं सिध्येत्तेन तूष्णीमग्नौ किंचित्क्षिप्त्वा भोक्तव्यम् । तथा च पृथ्वीचन्द्रोदये गोभिलः--

 "यस्य त्वेषामग्रतोऽन्नं सिध्येत्स नियुक्तं वह्नौ किंचिद्धुत्वाऽश्नीयात्" इति ।

 ग्रासमात्रमिति व्याख्यातारः । ( [१] इदं च कनिष्ठभ्रातुः कदाचित्पाकभेदे ज्ञेयमिति पृथ्वीचन्द्रः । नियुक्तं भोज्यम् । किंचिद्ग्रासमात्रम् ।

 तथा च[२]) संग्रहेऽपि--

"वैश्वदेवा[३]संभ[४]वे तु कुक्कुटाण्डप्रमाणं(णकम् ।)
संप्रहृत्य ग्रासमग्नौ किल्बिषात्तु विमुच्यते" इति ।

 ([५] एतदपि (?) प्रथममन्नसिद्धौ ज्येष्ठेन कृते वैश्वदेवे पश्चात्कनिष्ठस्य पाकभेदे[६] तेनाहुत्वैव भोक्तव्यम् । अयं चान्नप्रक्षेपस्तूष्णीमेवेति निबन्धकाराः । पाकासाध्ये जपोपवासादावविभक्तानामप्यधिकारः ।

"पृथगप्येकपाकानां ब्रह्मयज्ञो द्विजन्मनाम् ।
अग्निहोत्रं सुरार्चा च संध्या नित्यं पृथग्भवेत्"

 इतिप्रयोगपारिजात आश्वलायनोक्तेः । अत्र सुरार्चायाः पार्थक्यविधानं कुलागतप्रतिमातिरिक्तप्रतिमापरम्, तेन न शाकलवचनविरोधः । पाकभेदे तु सोऽपि प्रतिमा पृथक्पृथगेवेत्यर्थसिद्धम् ।) स्त्रीणामप्येवम् ।

"स्त्रियो ग्रासमात्रमन्नं धृतप्लुतमग्नौ प्रास्य भुञ्जीयुः" इति स्मृत्यन्तरोक्तेः[७]

 ([८] यतः(त्तु) "स्त्री बालांश्च कारयेत्" इति तद्विधवापरम् । "विधवा कारयेच्छ्राद्धम्" इतिस्मृतिरत्नावल्याद्युदाहृतश्राद्धवदिहापि तस्याः प्रयोजकत्वात् । तथा--एते यज्ञा जीवत्पितृकस्याप्यावश्यकाः ।) मृतपितृकस्यैवेतिविशेषानुपलम्भात् ।


  1. धनुश्चिह्नान्तर्गतो ग्रन्थो नास्ति ख. ङ. पुस्तकयोः ।
  2. च. च स्मृत्यन्तरे वै ।
  3. च. वाभावे कु ।
  4. क. ख. संभावे ।
  5. धनुश्चिह्नान्तर्गतो ग्रन्थो नास्ति ख. ङ. पुस्तकयोः ।
  6. क. दे ना ।
  7. ख. क्तेः । मृ ।
  8. धनुश्चिह्नान्तर्गतग्रन्थस्थाने क. च. पुस्तकयोरन्यथा पाठः स यथा--"इदं च विधवापरमित्याचाररत्ने । यस्या गृहे न कोऽप्यस्ति तादृशविधवापरमित्याचारदर्पणे । नास्ति स्त्रीणां पृथग्यज्ञः, न स्त्री जुहुयादिति निषेधौ समन्त्रकवैश्वदेवपरौ द्रष्टव्यौ । स्त्री बालांश्च कारयेदिति प्रयोज्यकर्तृकं यदुक्तं तदपि समन्त्रकवैश्वदेवपरं द्रष्टव्यम्" इति ।