([१] तच्चोपवासात्मकं कार्यम् ।
"अकृत्वाऽन्यतमं यज्ञं यज्ञानामधिकारतः । |
सर्वथोपवासं कर्तुमसमर्थस्य मनस्वत्येकाऽऽहुतिर्भवति ।
तदुक्तं प्रायश्चित्तप्रकाशे--
"एतेभ्यः पञ्चयज्ञेभ्यो यद्येकोऽपि च लुप्यते । |
यदा सायं समन्त्र[२]ककर्मकर्तॄणामभावस्तदा पत्नी सायममन्त्रकं बलिं हरेत् ।
तथा च मनुः--
"सायमन्नस्य सिद्धस्य पत्न्यमन्त्रं बलिं हरेत् । |
अत्र वैश्वदेवं हि नामैतदित्येतत्पर्यन्तमेकं वाक्यम् । सायं प्रातर्विधीयत इत्यपरं वैश्वदेवस्य कालद्वयेऽपि कर्तव्यताविधायकम् । अतः सायमेव पत्न्या बलिहरणरूपवैश्वदेवाधिकारः[३] । बलिहरणं[४] कृत्स्नवैश्वदेवकर्मोपलक्षणमिति केचिद्वर्णयन्ति । [ तन्न? ] न स्त्री जुहुयादित्यनेन वैश्वदेव[५]होमस्य स्त्रीकर्तृकत्वनिषेधाद्धोमलोपेन बलिहर[६]णस्यापि लोपे केवलबलिहर[७]णस्य परम्परयाऽपि विश्वे(श्व)देवाख्यदेवतासंबन्धासंभवेन वैश्वदे[८]वं हि नामैतदितिवचनबोधितवैश्वदेव[शब्द]वाच्यत्वा[९]संभवात् । अतः पत्नीव्यतिरिक्तवक्ष्यमाणकभावे लोप एव । वैश्वदेवसिद्धिस्तु[१०] पत्नीकर्तृकप्रायश्चित्तेनैव । संबन्धोपलक्षितत्वविवक्षायां तु बलिहरणादिकं भवत्येव । केचित्तु बलिं हरेदित्येकवचनाद्वैहायसबलिदानमात्रं स्त्रिया कार्यं नान्यदिति तन्न । स्मृत्यन्तरे 'रात्रौ पत्नी बलीन्हरेत्' इति बहुवचनेन सर्वेषामपि बलीनां रात्रौ विहितत्वेनात्रापि तथैव वक्तुमुचितत्वात् । एकवच[११]नस्य जात्यभिप्रायेणैव स्मृत्यन्तरानुरोधेन नेतुमुचितत्वात् । यत्तु नक्तमेवोत्तमेन वैहायस इत्येतस्मिन्सूत्रे नक्तं वैहायस एवेत्येवकारं योजयित्वा पुरुषेणापि नक्तं वैहायसबलिमात्रमेव कर्तव्यमिति कैश्चिदुक्तं तदप्याश्वलायनादिसूत्रविरोधादेवकारस्य व्यवहितान्वयकल्पने प्रमाणाभावाच्चोपेक्ष्यम् । तेन कृत्स्नमपि बलिहरणं पुरुषेण स्त्रिया वाऽपि रात्रौ कर्तव्यमेवेति सिद्धम् । एतच्च
- ↑ धनुश्चिह्नान्तर्गतो ग्रन्थश्च. पुस्तके नास्ति ।
- ↑ क. न्त्रक क ।
- ↑ क. ख. ङ. रः । तेन ब ।
- ↑ क. ख. ङ. णं वैश्वदेवस्याप्युपलक्षणार्थमि ।
- ↑ क. वस्य ।
- ↑ क. ख. ङ. रणादिलोपः । के ।
- ↑ च. रणे प ।
- ↑ क. ख. ङ. देववा ।
- ↑ क. ख. ङ. त्वाभावा ।
- ↑ ख. ङ. स्तु प्रा ।
- ↑ च. चेनं तु स्मृत्वन्तरानुरोधेन जात्यभिप्रायेणैव नेयम् । य ।