पृष्ठम्:संस्काररत्नमाला (भागः २).pdf/१२०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
९२८
[वैश्वदेवकालनिर्णयः]
भट्टगोपीनाथदीक्षितविरचिता--

त्सायंभोजनाभावेऽपि सायंवैश्वदेवस्य न लोपः । अत्र केचित्प्रातरेव वैश्वदेवद्वये तन्त्रेण कृतेऽपि सायं भोजनकर्तव्यतायां पुनरपि सायंवैश्वदेवः कर्तव्यः ।

 उदाहरन्ति च वचनम्--

"प्रातरेव कृतेऽपि स्याद्वैश्वदेवद्वये बुधैः ।
सायं सत्यां बुभुक्षायां वैश्वदेवं पुनश्चरेत्" इति ॥

 तन्निर्मूलं विरुद्धत्वान्निबन्धेष्वदर्शनाच्चेति नवीनाः । वैश्वदेवस्यान्नसंस्कारकत्वमात्रमिति पक्षे सायंभोजनाभावनिश्चयदशायां सायंवैश्वदेवस्यैवाभावात्पुनरिति विरुद्धम् । आत्मसंस्कारकत्वमात्रमिति[१]मतेऽशक्तिवशेन प्रातरनुष्ठितेन सायंवैश्वदेवेनैवाऽऽत्मसंस्कारस्य सिद्धत्वात्पुनर्विधानमेव विरुद्धम् । उभयसंस्कारकच[२]त्वं वैश्वदेवस्येतिमतेऽप्येकेनैव सायंतनवैश्वदेवेनोभयसंस्कारकत्वसिद्धेस्तद्दोषतादवस्थ्यमित्येवं वचनस्य विरुद्धत्वं द्रष्टव्यम् ।

 प्रातर्वैश्वदेवकर्म दैवाद्विस्मृतमपि अस्तोत्तरं सा[३]यमग्निहोत्रहोमादौपासनहोमाद्वा पूर्वं स्मृतं चेत्तदा वैश्वदेवमादौ झटिति कृत्वा सा[४]यमाग्निहोत्रहोममौपासनहोमं वा कुर्यात् ।

तथा च यज्ञपार्श्वे--

"अकृते वैश्वदेवे चेदस्तमेति गभस्तिमान् ।
वैश्वदेवं ततः कृत्वा सायंहोमं समाचरेत्" इति ॥

 यदा तु होमोत्तरं स्मरणं तदाऽपि सायंवैश्वदेवात्प्राक्पृथगेव प्रातर्वैश्वदेवः कर्तव्यः । न तु तन्त्रम् ।

 तथा च स्मृतिभास्करे--

"अकृतो वैश्वदेवश्चेद्दिवा रात्रौ तमाचरेत् ।
पृथगेव प्रकुर्वीत न तु तन्त्रमिहेष्यते" इति ॥

 दिवा वैश्वदेवो न कृतश्चेत्तदा तमन्तरितं रात्रौ पृथगेव कुर्यात् । इति पूर्वार्धार्थो द्रष्टव्यः । यदि तु सायंवैश्वदेवोत्तरं स्मरणं तदा द्वितीयदिने प्रायश्चित्तमात्रम् । [५]सायंवैश्वदेवस्याप्यग्रिमवैश्वदेवात्प्राक्स्मरणं चेत्तदा पृथगेव कर्तव्यता । अकृतो वैश्वदेवश्चेदित्युदाहृतवाक्यात् । रात्रौ वैश्वदेवो न कृतश्चेत्तदा तमन्तरितं दिवा पृथगेव कुर्यादित्यत्र योजनाऽस्मिन्विषये द्रष्टव्या । यदि त्वग्रिमवैश्वदेवोत्तरं स्मरणं तदा तदग्रिमदिने प्रायश्चित्तमात्रं [६]कार्यम् ।


  1. च. तिपक्षेऽप्यश ।
  2. च. कत्वपक्षेऽप्ये ।
  3. च. सायंहोमात्पूर्व ।
  4. च. सायंहोमं कु ।
  5. एतत्प्रभृति प्रायश्चित्तमात्रं कर्तव्यमित्यन्तो ग्रन्थः ख. ङ. पुस्तकयोर्नास्ति । क. पुस्तके तु टिप्पणीरूपेणाधो लिखितोऽस्ति ।
  6. क. पुस्तकटिप्पण्यां कर्तव्यमिति पाठः ।