यदा गवामप्यलाभस्तदा विष्णूक्तम्--
"भिक्षुकाभावे गोभ्योऽन्नं दद्यादग्नौ वा प्रक्षिपेत्" इति । |
मनुष्ययज्ञेऽप्येवमेव प्रतिपत्तिकर्मेति मदनपारिजाते ।
अत्राप्यशक्तौ मनूक्तम्--
"दद्यादहरहः श्राद्धमन्नाद्येनोदकेन वा । |
पयः क्षीरम् । एतच्च नित्यश्राद्धं श्राद्धान्तरे कृते न नियतम् ।
तथा च मार्कण्डेयः--
"नित्यक्रिया पितॄणां तु केचिदिच्छन्ति मानवाः । |
नित्यक्रिया नित्यश्राद्धम् । पितॄणां तथैव तस्मिन्दिने श्राद्धान्तरं चेत्तदा नैतच्छ्राद्धं कार्यमि[१]त्यन्य आहुः । शेषं वैश्वदेवादिकम् । अत्रैवं व्यवस्था--यत्रामावास्यानान्दीमुखश्राद्धादिषु नित्यश्राद्धदेवता इष्टा भवन्ति न तत्र नित्यश्रादं, यत्र च सांवत्सरिकादिषु नेष्टा नित्यश्राद्धदेवतास्तत्र कर्तव्यमिति ।
तथा च चमत्कारखण्डे--
"नित्यश्राद्धं प्रकुर्वीत प्रसङ्गाद्यत्र(न्न) सिध्यति । |
इति प्रसङ्गान्नित्यश्राद्धविधिरुक्तः ।)
"पितृयज्ञो भवेच्छ्राद्धं पित्र्यो बलिरथापि वा" |
इ[४]ति कात्यायनोक्तेश्च श्राद्धबलिदानयोर्विकल्प इति केचित् । अन्ये तु स्वधा पितृभ्य इत्यत्र देवपितॄणामेव देवतात्वं न मनुष्यपितॄणाम् । तेन श्राद्धे मनुष्यपितॄणामेव देवतात्वाच्छ्राद्धबलिदानसमुच्चयसिद्धिरित्याहुः । बौधायनकात्यायनवचनयोः पितृशब्दोऽग्निष्वात्तादिपितृपर एव वक्तव्यः । अन्यथा विषयस्य भिन्नत्वेन विकल्पानुपपत्तेः । पित्राद्युद्देश्यकं नित्यश्राद्धं भिन्नमेव । यद्यपि श्राद्धशब्दस्य मृतपित्रुद्देश्यकत्वसत्त्व एव मुख्या प्रवृत्तिस्तथाऽपि जीव