च्छ्राद्धविष्णुश्राद्धयोस्तदभावेऽपि श्राद्धशब्दप्रवृत्तिदर्शना[१]दत्रापि स्वी क्रियते गौण्येव । स्वधा पितृभ्यः[२] पितृभ्यः स्वधाऽस्त्वित्येतस्यैव स्वपित्राद्युद्देश्य[३]ताविकल्पान्यथाऽनुपपत्त्या स्वीकार्येत्येवं रीत्यैव समुच्चयवादिमतनिर्वाहः । श्राद्धस्याग्निष्वात्ताद्युद्देश्यत्वे पित्राद्युद्देश्यकश्राद्धं स्मृतिविहितमपि मृतपितृकेण भिन्नमेव कार्यम् । तदपि येषां सूत्रे नोक्तं भवति तैरपि कृतं चेद्वैशिष्ट्यम् । अकरणे प्रत्यवायाभावः । बलिदानस्य पित्राद्युद्देश्यकत्वे जीवत्पितृकस्य बलिदानलोप एव । तत्र देवयज्ञभूतयज्ञाभ्यामेव तत्सिद्धिः ।
- अथवा "येभ्य एव पिता दद्यात्तेभ्यो दद्यात्स्वयं सुतः"
इति वचनात्पितामहादीनुद्दिश्य वा पितृयज्ञः कार्यः । पित्रादित्रयाणामपि सत्त्वे तदा लोप एवेति तन्मते द्रष्टव्यः ।) वैश्वदेवस्त्वात्मसंस्कारार्थ एव । न च 'गृहमेधिनो यदशनीयस्य होमा बलयश्च" इतिवचनादुभयार्थत्वं शङ्कनीयम् । परस्परविरोधात् । अन्नसंस्कारत्वे ह्यन्नस्य प्राधान्यं वैश्वदेवस्य गुणत्वं पुरुषार्थत्वे तु तद्विपर्ययः । तथा च सति--एकस्यैव युगपत्प्राधान्यं गुणत्वं च विरुध्यते । तर्ह्यन्नसंस्कारार्थत्वमेवास्तु मा भूदात्मसंस्कारार्थत्वमिति चेन्न ।
"महायज्ञैश्च यज्ञैश्च ब्राह्मीयं क्रियते तनुः" |
इति मनुवचसाऽऽकाष्ठादिति विशेषवचसा चाऽऽत्मसंस्कारार्थत्वस्यैवावगतेः । यत्, 'यदशनीयस्य होमा बलयश्च' इत्युदाहृतं तदन्यथाऽप्युपपद्यते । तत्र होमा बलयश्चेत्युत्पत्तिविधिः । यदशनीयस्येति विनियोगः । अहरहर्भूतबलिर्मनुष्येभ्यो यथाशक्तिदानं देवेभ्यः स्वाहाकार आ काष्ठापितृभ्यः स्वधाकार ओदपात्रादृषिभ्यः स्वाध्याय इत्यधिकारः । गृहमेधिनो ये होमा बलयश्च तेऽशनीयस्यान्नस्येति योजना । सुपां सुलुगिति यच्छब्दोत्तरस्य जसो लुक् । किंचान्नसंस्का[४]रपक्षे प्रतिपाकमावृत्तिः प्रसज्येत । प्रतिप्रधानं गुणावृत्तिरिति न्यायात् । तस्मा[५]त्पुरुषार्थत्वमेव न्याय्यम् ।
अत एव गृह्यपरिशिष्टेऽभिहितम्--
"प्रोषितोऽप्यात्मसंस्कारं कुर्यादेवाविचारयन्" इति । |