पृष्ठम्:संस्काररत्नमाला (भागः २).pdf/११३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
[वैश्वदेवप्रकरणम्]
९२१
संस्काररत्नमाला ।
( नित्यश्राद्धविधिः )
 

"नाऽऽवाहनं स्वधाकारः पिण्डाग्नौकरणादिकम् ।
ब्रह्मचर्यादिनियमो विश्वे देवास्तथैव च ॥
तत्षाट्पौरुषिकं ज्ञेयं दक्षिणापिण्डवर्जितम्" इति ।

 दक्षिणादानस्य विहितप्रतिषिद्धत्वाद्विकल्पः ।

 मत्स्यपुराणे--"अप्येकं भोजयेद्विप्रं त्रीनुद्दिश्य पितॄंस्तथा" इति ।

 त्रीनिति मातामहादीनामपि प्रदर्शनार्थम् ।

 स्मृत्यन्तरे--

"नि[१]त्यश्राद्धं प्रवक्ष्यामि अर्घ्यावाहनवर्जितम् ।
अदैवं तद्विजानीयाद्दक्षिणादानवर्जितम्" इति ॥

 स्मृतिसंग्रहे--

"नित्यश्राद्धे त्यजेद्देवान्भोज्यमन्नं प्रकल्पयेत् ।
दत्त्वा तु दक्षिणां शक्त्या नमस्कारैर्विसर्जयेत् ॥
एकमप्याशयेद्विप्रं षण्णामप्यन्वहं गृही" इति ।

 भोज्यमन्नं स्वस्येति शेषः ।

"नित्यश्राद्धे ततो दद्याद्भुङ्क्ते यत्स्वयमेव हि"

 इतिब्रह्माण्डपुराणात् । अनेन तैलाद्यनुज्ञाऽपि कृता भवति ।

 देवलः--

"अघृतं भोजयन्विप्रं स्वगृहे सति सर्पिषि ।
परत्र निरयं घोरं गृहस्थः प्रतिपद्यते ॥
मिष्टमन्नं तु यो भुक्त्वा पश्चात्कदशनं लघु ।
ब्राहाणं भोजयन्विप्रो निरये चिरमावसेत्" इति ॥

 अत्र कात्यायनोऽनुकल्पमाह--

"एकमप्याशयेद्विप्रं पितृयज्ञार्थसिद्धये ।
अदैवं नास्ति चेदन्यो भोक्ता भोज्यमथापि वा ॥
अप्युद्धृत्य यथाशक्ति किंचिदन्नं यथाविधि ।
पितृभ्य इदमित्युक्त्वा स्वधाकारमुदाहरेत्" इति ॥

 एतदुद्धृतान्नं ब्राह्मणायैव दद्यात् । तदभावे गोभ्यः ।

 तथा च कूर्मपुराणे--

"उद्धृत्य वा यथाशक्ति किंचिदन्नं समाहितः ।
वेदतत्त्वार्थविदुषे द्विजायैवोपपादयेत्" इति ॥

 तथा--"सर्वेषामप्यभावे तु दत्तं गोभ्यो निवेदयेत्" इति ।


११६
 
  1. क. नित्यं श्रा ।