पृष्ठम्:संस्काररत्नमाला (भागः २).pdf/११०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
९१८
[वैश्वदेवप्रकरणम्]
भट्टगोपीनाथदीक्षितविरचिता--

तापत्तेरतोऽत्रैवाभिधीयेते । तत्र वैश्वदेवस्य देवयज्ञादिरूपत्वात्तदर्थं पञ्च यज्ञा उच्यन्ते ।

 तत्र यमः--

"ब्रह्मयज्ञो देवयज्ञः पितृयज्ञस्तथैव च ।
भूतयज्ञो नृयज्ञश्च पञ्च यज्ञाः प्रकीर्तिताः" इति ॥

 एतत्स्वरूपं श्रुतावप्युक्तम्--

"पञ्च वा एते महायज्ञाः सतति प्रतायन्ते सतति
सं० तद्ब्रह्म यज्ञः संतिष्ठते" इति ।

 [१]नुः--

"अध्यापनं ब्रह्मयज्ञः पितृयज्ञस्तु तर्पणम् ।
होमो दैवो बलिर्भौतो नृयज्ञोऽतिथिपूजनम्" इति ॥

 ([२]अयं कर्ममात्रविधिर्न क्रमस्य । एतद्यज्ञचतुष्टयं वैश्वदेवपदवाच्यामिति केचित् । देवयज्ञभूतयज्ञपितृयज्ञानां त्रयाणां तद्वाच्यत्वमिति माधवः ।

"पौरुषेण च सूक्तेन ततो विष्णुं समर्चयेत् ।
वैश्वदेवं ततः कुर्याद्बलिकर्म तथैव च" इति नारसिंहात् ॥
"सभार्यस्तु ततः स्नातो विधिनाऽऽचम्य वाग्यतः ।
प्रविश्य सुसमिद्धेऽग्नौ वैश्वदेवं समाचरेत्"

 इति ब्राह्मोक्तेश्च वैश्वदेवयज्ञमात्रं वैश्वदेवपदवाच्यमित्यन्ये । विश्वे(श्व)देवदेवताकत्यागघटितसमुदायसंबन्धेन वैश्वदेवस्य देवयज्ञभूतयज्ञयोः सत्त्वाद्द्वावेव वाच्यावित्यपि परे । ) अध्यायनमध्ययनं छान्दसो दीर्घः । तर्पणं पितृतर्पणम् । पितृश्राद्धमिति यावत् ।

 यतः स एवाऽऽह--

"स्वाध्यायेनार्चयीतर्पीन्होमैर्देवान्यथाविधि ।
पितॄञ्श्राद्धेन नॄनन्नैर्भूतानि बलिकर्मणा" इति ॥

 पितृयज्ञे विकल्पमाह कात्यायनः--

"पितृयज्ञो भवेच्छ्राद्धं पित्र्यो बलिरथापि वा" इति ।

 नित्यश्राद्धं पितृयज्ञः । अथवा वैश्वदेवमध्ये स्वधा पितृभ्य इति यो बलिर्दीयते स पितृयज्ञ इत्यर्थः ।


  1. च. मनरपि--अ ।
  2. अयं धनुश्चिह्नान्तर्गतो ग्रन्थः क. ख. पुस्तकयोरेवास्ति स च न च पार्वणेत्यादिग्रन्थात्पूर्वं पठितुं युक्तः । आसीच्च क. पुस्तके तत्रैव । स च केनचिच्छोधयित्राऽत्रैवापकर्षितः ।