पृष्ठम्:संस्काररत्नमाला (भागः २).pdf/१११

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
[वैश्वदेवप्रकरणम्]
९१९
संस्काररत्नमाला ।

बौधायनोऽपि--

"पितॄनुद्दिश्यैकं ब्राह्मणं भोजयेदपि वा दक्षिणेनाग्निं दक्षिणाग्रान्दर्भान्संस्तीर्य तेषु पिण्डं ददाति पितृभ्यः स्वधाऽस्त्वित्यपि वाऽपस्तत्पितृयज्ञः संतिष्ठते" इति ।

 एतन्मते देवेभ्यः स्वाहेत्यादिमन्त्रत्रयसाध्याः क्रमेण देवयज्ञपितृयज्ञभूतयज्ञा वैश्वदेवतो भिन्नाः[१] । तत्रोपयुज्यते पितृभ्यः स्वधाऽस्त्वित्ययं मन्त्रः । सूत्रकृता तु देवयज्ञादित्रयस्य भिन्नतयाऽनुक्तत्वाद्वैश्वदेव एव यज्ञत्रयमन्तर्भवति । तत्र स्वधा पितृभ्य इति मन्त्रस्यैव पितृयज्ञसाधनत्वं द्रष्टव्यम् । न चैवं सति देवेभ्यः स्वाहेत्यादिमन्त्रत्रयस्य कुत्र विनियोग इति वाच्यम् । षडाहुत्यादिरौद्रबल्यन्तकर्मण्यशक्तौ मन्त्रत्रयेण यज्ञत्रयं कर्तव्यमित्येवंरीत्या विनियोगसंभवात् । न च शब्दस्य[२] न प्रतिनिधिर्विद्यत इत्यनेन विरोधः, मन्त्रस्यापि शब्दरूपत्वादिति वाच्यम् । यथारूपमितर इत्यनेन विनियोगस्याऽऽवश्यकत्वे सिद्धेऽन्यत्र विनियोगासंभवेनानायत्या प्रतिनिधित्वेन विनियोगस्वीकारात् । न चैतन्मन्त्रविनियोगबलाद्देवयज्ञभूतयज्ञपितृयज्ञानामेव वैश्वदेवाद्भिन्नत्वं स्वीकार्यम्, किमिति प्रतिनिधित्वेन सूत्रविरुद्धो विनियोगस्वीकार इति वाच्यम् । देवेभ्यः स्वाहाकार इ[३]त्यस्मिन्सूत्र उज्ज्वलाकारेणाभेदस्यैव प्रदर्शित[४]त्वात्, रौद्रान्तताया एव सूत्रकृता स्पष्टतयोक्तत्वाच्च[५] देवयज्ञपितृयज्ञभूतयज्ञानां वैश्वदेवभिन्नत्वस्य वक्तुमशक्यत्वात् । तत्राभेदप्रदर्शको ग्रन्थ इत्थम्--वैश्वदेवेन यक्ष्यमाणेन बलिहरणप्रकारेण भूतेभ्योऽहरहर्बलिर्देय एष भूतयज्ञः । मनुष्येभ्यश्च यथाशक्ति दानं कर्तव्यमेष मनुष्ययज्ञः । देवेभ्यः स्वाहाकारेण प्रदानमा काष्ठात् । अशनीयाभावे काष्ठमपि तावद्देयं वैश्वदेवोक्तप्रकारेण । एष देवयज्ञः । केचिद्वैश्वदेवाहुतिभ्यः पृथक्भूतामिमां मन्यन्ते । देवेभ्यः स्वाहेति मन्त्रमिच्छन्ति । देवयज्ञेन यक्ष्य इति संकल्पमिच्छन्ति । वयं तु न तथेति गृह्य एवावोचाम । केचिदाहुः-- आ काष्ठादितिवचनाददनीयाभावे भोजनलोपे यथाकथंचिद्वैश्वदेवं कर्म कर्तव्यं पुरुषसंस्कारत्वादिति । अपरे त्वशनीयसंस्कार इति वदन्तो भोजनलोपे वैश्वदेवं न कर्तव्यमिति स्थितास्तच्चिन्त्यम् । पितृभ्यः स्वधाकारेण प्रदानमोदपात्रात् । अन्नाद्यभाव उदपात्रमपि तावद्देयं, पात्रग्रहणात्सहपात्रेण देयमेष पितृयज्ञः । 'स्वाध्यायस्तस्य विधिः' इत्यारभ्योक्तो नित्यः स्वाध्याय एष ऋषियज्ञः । इतिशब्दः समाप्तौ । इत्येते महायज्ञा इति । न चायमुपदेशक्रमोऽनुष्ठान उपयुज्यते । अनुष्ठानं तु ब्रह्मयज्ञो


  1. च. न्नाः । अत्रो ।
  2. क. ख. ङ. स्य प्र ।
  3. च. इत्येतत्सूत्र ।
  4. च. तत्वेन रौ ।
  5. ख. ङ. श्व वैश्वदेवेन ।