मेक्षणमनुप्रहरेत् । न वा प्रहरणम् । ततः परिस्तरणानि विसृज्योत्तरपरिषेकं कृत्वा क्षेत्रस्य पतिनेति द्वयोर्विश्वे देवा ऋषयः क्षेत्रस्य पतिर्देवता । प्रथमस्यानुष्टुप् । द्वितीयस्य त्रिष्टुप् । उपस्थाने विनियोगः । 'ॐ क्षेत्रस्य पतिना० ॐ क्षेत्रस्य पते मधुमन्त०' इति द्वाभ्यां क्षेत्रस्य पतिमुपतिष्ठते ।
ततो हुतशिष्टमन्नं किंचित्किंचिदुपादाय ये कर्तुः सकुल्याः सपिण्डा भवन्ति ते प्राश्नन्ति [१]प्रत्तानां स्त्रीणां न भवति तासां कुलान्तरसंक्रान्तत्वात् ।
ततः शान्तिं पठन्गृहं प्रत्येत्य हस्तपादप्रक्षालनं कृत्वाऽऽचम्य ब्राह्मणान्भोजयित्वा विष्णुं संस्मरेत् ।
कौषीतकिनां वाजसनेयिनां च ब्राह्मणे दृष्टत्वाच्छ्रौतमेवेदं न स्मार्तम् । अत एतद्धेषे श्रौतं प्रायश्चित्तं कार्यमिति मातृदत्तः ।
इति संस्काररत्नमालाख्यायां पद्धतौ शूलगवप्रयोगः ।
इत्योकोपाह्वश्रीमत्साग्निचिद्वाजपेयपौण्डरीकयाजिसर्वतोमुखया-
जिगणेशदीक्षिततनूजभट्टगोपीनाथदीक्षितविरचितायाः
सत्याषाढहिरण्यकेशिस्मार्तसंस्काररत्नमालाया
उत्तरार्धे चतुर्थं प्रकरणम् ॥ ४ ॥
अथ पञ्चमं प्रकरणम् ।
इति लौगा[६]क्षि[७]णाऽन्वाधानोत्तरं मासिश्राद्धात्पूर्वं च वैश्वदेवपिण्डपितृयज्ञयोः कर्तव्यताविधाना[८]त् । न च पार्वणस्थालीपाकान्वाधानाव्यवहितोत्तरमेव कुतो नाभिहिताविति वाच्यम् । तत्रानयोरभिधाने स्थालीपाकप्रयोग[९]सौकर्यव्याघा
- ↑ अत्र क. पुस्तकटिप्पण्याम् “ विवाहितकन्यकानाम्" इति ।
- ↑ ख. ङ. च. थ पक्षा ।
- ↑ च. दौ पक्षा ।
- ↑ ङ. र्वर्त्येर्तिलौ ।
- ↑ क. तु ।
- ↑ च. गाक्ष्युक्तक्रमानुसारेण वैश्वदेवपिण्डपितृयज्ञावभिधीयेते । न च ।
- ↑ ङ. क्षिवाक्योक्तक्रमानुसारेण मासिश्राद्धात्पूर्वं वैश्वदेवपिण्डपितृयज्ञावभिधीयेते । तत्रा ।
- ↑ ख. नान्मासिश्राद्धं वक्तुमादौ वैश्वदेवपिण्डपितृयज्ञावभिधीयेते । न चान्वाधानोत्तर ।
- ↑ च. गक्रमव्या ।