पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/७७२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
७६४
भट्टगोपीनाथदीक्षितविरचिता-- [मालासंस्कारहोमविधिः]

 तत ऋत्विजः सपत्नीकं यजमानं कलशोदकेनाऽऽपो हि ष्ठाद्यैर्मन्त्रैरभिषिञ्चेयुः ।

 ततो यजमान ऋत्विग्भ्यो हिरण्यं तन्निष्क्रयं वा यथाविभवं दक्षिणां दत्त्वा गुरवे पीठसहितां प्रतिमां दत्त्वा होमकर्मेश्वरायार्पयेत् ।

 ततो मूलमन्त्रमुक्त्वा सुतप्रदं गोपालकृष्णं तर्पयामि नम इति हो[१]मदशांशेन दुग्धेन जलेन वा तर्पणं कृत्वा मूलमन्त्रान्ते सुतप्रदं गोपालकृष्णमभिषिञ्चामि नम इति तर्पणदशांशेन मार्जनं विधाय मार्जनदशांशेन ब्राह्मणान्भोजयेत् । स्वस्य पुरश्चरणकरणाशक्तावेतत्प्रयोगाभिज्ञेनाऽऽचार्येण कारयेत् । तस्मा एव प्रतिमां दद्यात् । यत्र होम एव प्रयोगविशेषे फलप्रदत्वात्प्रधानं न पुनर्जपाङ्गं तत्र ब्राह्मणभोजनसंख्या तन्त्रे विशेषानुक्ता स्मृत्युक्ता ग्राह्या । तत्र लक्षहोमे षष्ट्यधिका नवशती मुख्यः पक्षः । विंशत्यधिका पञ्चशती मध्यमः । दशाधिका त्रिशत्यधमः । यत्र प्रधानदेवताङ्गत्वेन स्मृतितन्त्रोक्तयोरविरोधे समुच्चयपक्षमाश्रित्य ग्रहा अपि पूज्यन्ते तत्र त[२]दङ्गब्राह्मणभोजनमपि कार्यम् । तत्रोत्तमे पक्षे विंशत्यधिका सप्तशती ब्राह्मणानां भोजनीया । मध्यमपक्षे चत्वारिंशदुत्तरं शतत्रयम् । अधमपक्षे दशाधिकं शतमिति । कलौ चतुर्गुणं प्रोक्तमितिवचनाच्चतुर्लक्षात्मकं पुरश्चरणं कृत्वा काम्यप्रयोगं कुर्यात् । तत्र ममापत्योत्पत्तिबन्धकीभूतसकलदोषनिवृत्तिसंततिक्षेमसुपुत्रप्राप्तिद्वारा सुतप्रदगोपालकृष्णप्रीत्यर्थं चतुर्लक्षं सुतप्रदगोपालकृष्णमन्त्रजपमहं करिष्य इति संकल्पवाक्ये विशेषः । आचार्यपक्ष आचार्यद्वारा करिष्य इति संकल्प ऊहेत् । स्त्रीकर्तृकजपपक्षे होमादिकमाचार्यादिद्वारैव । अत्राष्टोत्तरशतसंख्याकान्विप्रान्भोजयेत् । अन्यत्समानं पुरश्चरणवत् । तान्त्रिकहोमविधिस्तु मत्कृते सामान्यहोमविधौ द्रष्टव्यः ।

 ([३] अथ पुरश्चरणका[४]ले विहितानि--मनःस्थैर्यशौचमौनमन्त्रार्थचिन्तनानिर्वेदश्रद्धोत्साहसंतोषेन्द्रियनिग्रहब्रह्मचर्यगुरु-प्रणतित्रिकालदेवतार्चनपर्वविशेषनिमित्तकविशेषार्चनदेवस्तुतिदेवविश्वासगुरुविश्वास-मध्यपत्रवर्जपलाशपत्रावलीभोजनमितैकवारहविष्यभोजन[५]रात्रिभोजनप्रक्षालितदर्भास्तीर्णधौतवस्त्रशयनत्रिषवणस्नानादीनि । अशक्तौ तु प्रातःस्नानमात्रम् ।



  1. ख. ग. ङ. च. जपदशांशेन ।
  2. क. तन्त्रेण ब्रा ।
  3. धनुश्चिह्नान्तर्गतं ख. पुस्तके त्रुटितम् ।
  4. क.ग. कालवि ।
  5. ग. नप्र ।