पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/७७१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
[मालासंस्कारहोमविधिः]
७६३
संस्काररत्नमाला

समाप्तिपर्यन्तं प्रत्यहं देवं संपूज्याऽऽसनविध्यादि मूर्तिसंस्कारावाहनमालासंस्कारवर्जं जपनिवेदनान्तं कर्म कुर्यात् । समाप्ते पुरश्चरणे होमं कुर्यात् ।

 स यथा--आचम्य प्राणानायम्य गणेशं संपूज्य ब्रह्मादीन्वृत्वा पूजयेत् । अत्र पुण्याहवाचनमपि केचित्कुर्वन्ति ।

 ततो देवस्य पूजां विधाय कुण्डकरणोल्लेपनाद्यग्निस्थापनान्तं कुर्यात् । अत्र बलवर्धननामाऽग्निः ।

 ततोऽन्वाधानम् । समित्त्रयमादाय श्रद्ध एहीत्यादिप्राणायामान्तं कृत्वा सुतप्रदगोपालकृष्णमन्त्रजपदशांशहोमकर्मणि या इत्यादि प्रसाधनीदेव्यन्तं व्याहृत्यन्तं वोक्त्वा प्रधानहोमे--सुतप्रदगोपालकृष्णं मूलमन्त्रेण जपदशांशसंख्याभिराज्यक्षीरमध्वक्ततिलाहुतिभिर्यक्ष्ये । पीठदेवता आवरणदेवताश्चैकैकयाऽऽज्यक्षीरमध्वक्ततिलाहुत्याऽऽज्याहुत्या वा यक्ष्ये । अग्निं स्विष्टकृतं हुतशेषद्रव्याहुत्या यक्ष्य इत्यादि । अङ्गहोमे वरुणं द्वाभ्यामित्यादि[१] वा । पात्रासादन आज्येन सह[२] क्षीरमधुतिलानासादयेत् । ततो ब्रह्मोपवेशनादि । आज्यपर्यग्निकरणकाले तिलानाज्यक्षीरमधुभिरभ्यक्तान्कृत्वा तेषामप्याज्येन सह पर्यग्निकरणं कुर्यात् ।

 ततः परिधिपरिधानाद्यन्वाधानोत्कीर्तनानुसारेण प्रसाधनीहोमान्तं व्याहृतिहोमान्तं वा कृत्वा प्रधानहोममृत्विग्भिः कारयेत् ।

 ऋत्विजो द्विराचम्य कृतन्यग्जानुकाः कृतप्राणायामासनविधिभूतशुद्ध्याद्यृष्यादिन्यासाः प्राङ्मुखा उदङ्मुखा वा मृगीमुद्रया सावधानमनसो होमं कुर्युः । तिलाश्चुलकमिताः शतसंख्या वा । आज्यं कर्षप्रमाणम् । कर्षस्तु दशगुञ्जामितमाषषोडशकप्रमाणः । अन्नं ग्रासमितम् । अनेकदिनसाध्ये होमे तु प्रतिदिवसं[३][४]याचित्संख्यया[५] वह्निरक्षणपूर्वकं शुभदिने समाप्तिं कुर्यात् । प्रतिदिनं होमाद्यन्तयोः प्रधानदेवताङ्गदेवताः पूजयेत् । आरम्भे समाप्तिदिनेऽग्निं मूलमन्त्रेण स्वाहास्वधासहितं पूजयेत् । समाप्ते प्रधानहोमे स्वयमेव पीठदेवताभ्य आवरणदेवताभ्यश्चैकैकमाज्यक्षीरमध्वक्ततिलाहुतिमाज्याहुतिं वाऽन्वाधानोत्कीर्तितपक्षानुसारेण हुत्वा हुतशेषेण स्विष्टकृदाद्यङ्गहोमादि वाऽन्वाधानोत्कीर्तनानुसारेण कुर्यात् । प्रायश्चित्तहोमाकरणपक्षे स्विष्टकृदन्ते तत्करणपक्षे तदन्ते वा पूर्णाहुतिं हुत्वा होमशेषं समाप्य देवस्योत्तरपूजां कुर्यात् ।



  1. क. दि । पा ।
  2. ख. ग. च. ह म ।
  3. ग. स केषांचि ।
  4. क. कतिचि ।
  5. क. ग. ङ. च. या संस्थाप्य य ।