पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/७६२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
७५४
भट्टगोपीनाथदीक्षितविरचिता-- [प्राणप्रतिष्ठा]

अधोमुखं कृष्णवर्णमङ्गुष्ठपरिमाणकम् ।
खड्गचर्मधरं क्रुद्धं वामकुक्षौ विचिन्तयेत्" इति ॥

 ततो यमितिवायुबीजेन षोडशवारमावृत्तेन पापपुरुषं संशोष्य रमित्यग्निबीजेन चतुःषष्टिवारमावृत्तेन संदह्य यमितिवायुबीजेन द्वात्रिंशद्वारमावृत्तेन तद्भस्म दक्षिणनासापुटेन बहिर्निःसार्य वमित्यमृतबीजेन षोडशवारमावृत्तेन तद्भस्मामृतेन संप्लाव्य लमितिभूमिबीजेन षोडशवारमावृत्तेन घनीभूतं देहं विभाव्य हमित्याकाशबीजेन षोडशवारमावृत्तेन देवताराधनयोग्यतां विभाव्य ब्रह्मणः सकाशात्प्रकृतिः प्रकृतेर्महत्त्वं महत्तत्वादहंकारोऽहंकारादाकाश आकाशाद्वायुर्वायोरग्निरग्नेरापोऽद्भ्यः पृथिवी पृथिव्या ओषधय ओषधीभ्योऽन्नमन्नाद्रेतो रेतसः पुरुषः स वा एष पुरुषोऽन्नरसमय इति सृष्टिक्रमं विभाव्य प्रणवेन हृत्पद्ममूर्ध्वमुखं विभाव्य हंसः सोऽहमिति मन्त्रेण जीवात्मानं हृत्पद्मे समागतं विभाव्य कुण्डलिनीं स्वस्थानगतां विभावयेत् ।

अथ प्राणप्रतिष्ठा ।

 अस्य श्रीप्राणप्रतिष्ठामन्त्रस्य ब्रह्मविष्णुशिवा ऋषयः । ऋग्यजुःसामानि च्छन्दांसि । चैतन्यरूपा[१] प्राणशक्तिर्देवता । आं बीजम् । ह्रीं शक्तिः । क्रों[२] की[३]लकम् । प्राणप्रतिष्ठापने विनियोगः । ब्रह्मविष्णुशिवेभ्य ऋषिभ्यो नमः शिरसि । ऋग्यजुःसामभ्यश्छन्दोभ्यो नमो मुखे । चैतन्यरूपायै[४] प्राणशक्तिदेवतायै नमो हृदये । आं बीजाय नमो गुह्ये । ह्रीं शक्तये नमः पादयोः । क्रों[५] की[६]लकाय नमो नाभौ । प्राणप्रतिष्ठापने विनियोगाय नमः सर्वाङ्गे । ॐ आं ह्रीं क्रों[७] अं कं खं गं घं ङं[८] । आकाशवाय्वग्निसलिलपृथिव्यात्मन आं हृदयाय नमः । ॐ आं ह्रीं क्रों[९] इं चं छं जं झं ञं शब्दस्पर्शरूपरसगन्धात्मने ईं शिरसे स्वाहा । ॐ आं ह्रीं क्रों[१०] उं टं ठं डं ढं णं श्रोत्रत्वक्चक्षुर्जिह्वाघ्राणात्मन ऊं शिखायै वषट् । ॐ आं ह्रीं क्रों[११] एं तं थं दं धं नं वाक्पाणि[१२]पादपायूपस्थात्मन ऐं कवचाय हुं । ॐ आं ह्रीं क्रों[१३] ओं पं फं बं भं मं वचनादानविसर्गग[१४]मनानन्दात्मन औं नेत्रत्रयाय वौषट् । ॐ आं ह्रीं क्रों[१५] अं यं रं लं वं शं षं सं हं ळं क्षं मनोबुद्ध्यहंकारचित्तानन्दात्मने, अः अस्त्रायफट् । इति षडङ्गेषु तत्तन्मु



  1. ङ. पा परा प्रा ।
  2. ग कौ ।
  3. क. ड. किलकम् ।
  4. ड. ये परायै प्रा ।
  5. ग. क्रौं ।
  6. ख. ङ. किलकाय ।
  7. ग. क्रों ।
  8. क. ग. ङं क्रौ ह्र्रीं आं ओं । आ ।
  9. ग. क्रौं ।
  10. ग. क्रौं ।
  11. ग. क्रौं ।
  12. क. ङ. णिपायू ।
  13. ग. क्रौ ।
  14. गमनविसर्गेत्यादिव्यत्यासेन पाठो युक्तः
  15. ग. क्रौं ।