पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/७६१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
[भूतशुद्धिः]
७५३
संस्काररत्नमाला

र्गायत्री । तेजोनमस्कारे विनियोगः । "ॐ अग्निं दूतं वृणी० यज्ञस्य सुक्रतुम्" । रं तेजसे नमः । ऋग्वेदिनां तु--अग्निं दूतं काण्वो मेधातिथिरग्निर्गायत्री । तेजोनमस्कारे विनियोगः । "ॐ अग्निं दूतं वृणीमहे० सुक्रतुम्" । रं तेजसे नम इति ।

 हृदयादि भ्रूमध्यपर्यन्तं वायुमण्डलं वृत्तं धूम्रवर्णं षड्बिन्दुलाञ्छितं शान्तिकलमीशानदैवत्यं यंबीजयुक्तं ध्यायेत् । वायो शतमित्यस्य विश्वे देवा वायुरनुष्टुप् । वायुनमस्कारे विनियोगः । "ॐ वायो शत ० पाजसा" । यं वायवे नमः । ऋग्वेदिनां तु--तव वायो व्यश्व आङ्गिरसो वायुर्गायत्री । वायुनमस्कारे विनियोगः । "ॐ तव वायवृ० वृणीमहे" । यं वायवे नम इति ।

 भ्रूमध्या[१]दाब्रह्मरन्ध्र[२]माकाशमण्डलं वृत्तं शुक्लवर्णं विधुलाञ्छितं शान्त्यतीतकलं सदाशिवदैवत्यं हंबीजयुक्तं ध्यायेत् । घृतं घृतपावान इत्यस्य सोम आकाशो यजुः । आकाशनमस्कारे विनियोगः । "ॐ घृतं घृतपावा० त्वाऽन्तरिक्षाय" । हम्, आकाशाय नमः । ऋग्वेदिनां तु, आदिद्वत्स आकाशो गायत्री । आकाशनमस्कारे विनियोगः ।"ॐ आदित्प्रत्नस्य० ते दिवा" । हम्, आकाशाय नम इति ।

 पद्धस्तपायूपस्थवाचः क्रमात्पृथिव्यादिषु न्यसामि । गमनादानरेचनानन्दवचनानि क्रमा० । घ्राणरसनचक्षुःस्पर्शनश्रोत्राणि क्रमा० । गन्धरसरूपस्पर्शशब्दान्क्रमा० । समानोदानव्यानापानप्राणान्क्रमा० । एवं विन्यस्य पञ्चगुणां[ पृथिवीं ] षडुद्घातप्रयोगेण लं ६ अम्बुनि प्रविलापयामि । अम्बु[३] चतुर्गुणं पञ्चोद्घातप्रयोगेण वं ५ अग्नौ प्रविलापयामि । अग्निं त्रिगुणं चतुरुद्घातप्रयोगेण रं ४ वायौ प्रविलापयामि । वायुं द्विगुणं त्रिरुद्घातप्रयोगेण यं ३ आकाशे प्रविलापयामि । आकाशमेकगुणं द्विरुद्घातप्रयोगेण हं २ अहंकारे प्रविलापयामि । तमहंकारं महत्तत्त्वे प्रविलापयामि । तन्महत्तत्त्वं प्रकृतौ प्रविलापयामि । तां प्रकृतिं परब्रह्मणि प्रविलापयामि । इति प्रविलापयेत् ।

 ततः--

"ब्रह्महत्याशिरस्कं च स्वर्णस्तेयभुजद्वयम् ।
सुरापानत्दृदा युक्तं गुरुतल्पकटिद्वयम् ॥
तत्संसर्गिपदद्वंद्वमङ्गप्रत्यङ्गपातकम् ।
उपपातकरोमाणं रक्तश्मश्रुविलोचनम् ॥



९५
 
  1. ग. ध्यादिव्र ।
  2. ग. न्ध्रपर्यन्तमा ।
  3. ख. ग. च. म्बु द्विगुणं त्रिरुद्घा ।