पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/७६३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
[अन्तर्मातृकान्यासः]
७५५
संस्काररत्नमाला

द्राभिर्विन्यस्य नाभ्यादिपादद्वयाग्रान्तम्, आं नमः । कण्ठादिनाभ्यन्तं ह्रीं नमः । मूर्धादिकण्ठान्तं क्रों[१] नमः ।

 ततो हृ[२]द्येव यं, त्वगात्मने नमः । रं, असृगात्मने नमः । मांसात्मने नमः । वं मेदआत्मने नमः । शं, अस्थ्यात्मने नमः । पं मज्जात्मने नमः । सं शुक्रात्मने नमः । हं, ओजआत्मने नमः । ळं जीवात्मने नमः । क्षं परमात्मने नमः ।

 ततो हृदयकमले यं नमः । आग्नेये रं नमः । ([३] पूर्वे लं नमः । पश्चिमे वं नमः । ईशाने शं नमः । नैर्ऋते षं नमः । उत्तरे सं नमः । दक्षिणे हं नमः ।) कर्णिकायां क्षं नमः । इति विन्यसेत् ।

 ततः समस्तमातृकाभिर्मूर्धादिचरणावधिव्यापकन्यासं विधाय,

"रक्ताब्धिपोतारुणपद्मसंस्थां पाशाङ्कुशाविक्षुशरासबाणान् ।
शूलं कपालं दधतीं कराग्रे रक्तां त्रिनेत्रां प्रणमामि देवीम्" इति ध्यायेत् ।

 वामाद्यूर्ध्वयोराद्ये तदाद्यधःस्थयोरन्ये तदाद्यधःस्थयोरपरे इत्यायुधस्थितिः । शरासो धनुः ।

 ततो हृदि दक्षहस्ततलं निधाय, ॐ आं ह्रीं क्रों यं रं लं वं शं षं ओं क्षं सं हं ळं क्षं सः, ह्रीं ओं हंसः, मम प्रा[४]णा इह प्राणाः, पुनरोमित्याद्यजपान्तमुक्त्वा--मम जीव इह स्थितः, पुनस्तथैवोक्त्वा--मम सर्वेन्द्रियाणि, पुनस्तथैवोक्त्वा--मम वाङ्मनश्चक्षुःश्रोत्रत्वग्घ्राणप्राणा इहाऽऽगत्य सुखं चिरं तिष्ठन्तु स्वाहेति प्राणप्रतिष्ठां कुर्यात् ।

 मम सर्वेन्द्रियाणि वाङ्मनश्चक्षुःश्रोत्रत्वग्घ्राणप्राणा इत्येकमेव वा ।

 ॐ आं ह्रीं क्रों यं रं लं वं शं षं सं हों हंसः सोऽहमित्येवं वा प्राणप्रतिष्ठापनमन्त्रः ।

"ॐ असुनीते पुनरस्मासु च० मृळया नः स्वस्ति" इति पठेत् ।

 ज्ञानार्णवे तु--आं सोऽहमित्येतावतैव प्राणप्रतिष्ठोक्ता । गर्भाधानादिपञ्चदशसंस्कारसिद्ध्यर्थं पञ्चदशवारं प्रणवं जपेत् । इति प्राणप्रतिष्ठा ।

अथान्तर्मातृकान्यासः ।

 तत्र मातृकाभिः प्राणायामत्रयं कृत्वा मातृकान्यासं कुर्यात् । तत्र स्वरैः ।



  1. ग. क्रौं ।
  2. ड. हृदये यं ।
  3. धनुश्चिह्नान्तर्गतग्रन्थस्थाने क. पुस्तके शोधितो ग्रन्थोऽन्यथा वर्तते. स यथा--"वायव्ये लं नमः । पूर्वे वं नमः । पश्चिमे शं नमः । ईशाने षं नमः । नेर्ऋते सं नमः । उत्तरे हं नमः । दक्षिणे ळं नमः" इति । तत्र युक्ततरो ग्राह्यः सुधीभिः ।
  4. ड. च. प्राण ।