पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/७६०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
७५२
भट्टगोपीनाथदीक्षितविरचिता-- [भूतशुद्धिः]

"अपसर्पन्तु ते भूता ये भूता भूमिसंस्थिताः ।
ये भूता विघ्नकर्तारस्ते नश्यन्तु शिवाज्ञया ॥
अपक्रामन्तु भूतानि पिशाचाः सर्वतोदिशम् ।
सर्वेषामविरोधेन ब्रह्मकर्म समारभे"

 इत्यनेन वामपादपार्ष्णिघातत्रयेण पार्थिवान्विघ्नांस्तालत्रयेणाऽऽन्तरिक्षान्दिव्यदृष्ट्यवलोकनेन दिव्यान्विघ्नांश्चोत्सार्य "सर्वभूतनिवारणाय सशराय सशार्ङ्गाय सुदर्शनायास्त्रराजाय हुं फुट्" इति दिग्बन्धं विधाय परितोऽग्निप्राकारं विचिन्त्य भूतशुद्धिं कुर्यात् ।

 सा यथा--मूलाधारस्थितां विसतन्तुनिभां विद्युत्प्रभां प्रसुप्तभुजगाकारां सार्धत्रिवलयां स्वयंभूलिङ्गवेष्टिनीं कुण्डलिनीं ध्यात्वा मूलाधारात्प्रणवेन भुजंगीमिव तामुत्थाप्य प्रणवेनोर्ध्वमुखं विकसितं हृत्पद्मं कृत्वा तत्रत्यं जीवात्मानं षट्चक्रभेदक्रमेण ब्रह्मरन्ध्रं नीत्वा सहस्रदलगतबिन्दुरूपे परमात्मनि संयोज्य हंसः सोऽहमितिमन्त्रेण परमात्मनैक्यभावमापादयेत् ।

 पादादिजानुपर्यन्तं पृथिवीमण्डलं चतुरश्रं स्वर्णवर्णं वज्रलाञ्छितं निवृत्तिकलं ब्रह्मदैवत्यं लंबीजयुक्तं ध्यायेत् ।

 स्योनेत्यस्य मन्त्रस्य याज्ञिक्यो देवता उपनिषदो भूमिर्गायत्री । भूमिनमस्कारे विनियोगः । "ॐ स्योना पृथिवि भवा नृक्षरा निवेशनी । यच्छा नः शर्म सप्रथाः" । लं भूम्यै नम इति नमस्कुर्यात् । [१]ऋग्वेदिनां तु स्योना मेधातिथिभूमिर्गायत्री । भूमिनमस्कारे विनियोगः । "ॐ स्योना पृथिवि भवा नृक्षरा निवेशनी । यच्छा नः शर्म सप्रथः" । लं भूम्यै नमः ।

 जान्वादिनाभिपर्यन्तमम्बुमण्डलमर्धचन्द्राकारं शुभ्रवर्णं पद्मद्वयलाञ्छितं प्रतिष्ठाकलं विष्णुदैवत्यं वंबीजयुक्तं ध्यायेत् । अप्सु म इत्यस्य विश्वे देवा आपोऽनुष्टुप् । अम्बुनमस्कारे विनियोगः । "ॐ अप्सु मे सोमो० भेषजी" । वम्, अम्बुने नमः । ऋग्वेदिनां तु--अप्सु[२] मेधातिथिरापोऽनुष्टुप् । अम्बुनमस्कारे विनियोगः । "ॐ अप्सु मे सोमो० भेषजीः" । वम्, अम्बुने नम इति ।

 नाभ्यादि हृदयपर्यन्तं तेजोमण्डलं त्रिकोणं रक्तवर्णं स्वस्तिकलाञ्छितं विद्याकलं शिवदैवत्यं रंबीजयुक्तं ध्यायेत् । अग्निं दूतमित्यस्य प्रजापतिरग्नि



  1. ऋग्वेदिविषयकविशेषदर्शको ग्रन्थो नास्ति ङ. पुस्तके । एवमग्रेऽपि ।
  2. ख. प्सु मे मे ।