सामग्री पर जाएँ

पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/७५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
[परिधिपरिधानादि]
७१
संस्काररत्नमाला ।
(परिषेकादि)
 

परिधिभिः परिधानं कार्यं न बाह्यत इति । इतरथा पात्रासादनवद्ब्रह्मसदनवच्च बाह्यतः प्राप्नुयात् । दक्षिणोत्तरयोः पुनर्ग्रहणं संस्पृष्टामिति संशब्दश्चाग्नेर्दक्षिणत उत्तरतश्च तयोर्निधानं सम्यक्स्पर्शनेनाधरोत्तरभावश्च यथा स्यादित्येतदर्थम् । इतरथा मध्यमस्यैव दक्षिणत उत्तरतश्च निधानं स्पर्शमात्रं च प्राप्नुयात् । अपरेणाग्निं प्राङ्मुख उपविशतीत्येतत्सूत्रं दक्षिणतो यज्ञोपवीत्याचान्तः कुमार इत्येतस्मिन्नुत्तरसूत्रेऽन्वेति । तेन कुमारस्य प्राङ्मुखताऽपरेणाग्निं प्राङ्मुख उपविशतीत्येतस्य सूत्रस्य वैयर्थ्यापत्तिपरिहारश्च सिध्यति । एतच्च संस्कार्यमात्रोपलक्षणम् । तेन यत्र संस्कार्या पत्नी तत्र तस्या अपि पत्युर्दक्षिणत उपवेशने प्राङ्मुखत्वं भवति । अग्र उपविश्येतिवचनमुपवेशनान्वारम्भयोः कालाव्यवधानार्थम् । अथवाऽपरेणाग्निं प्राङ्मुख उपविशतीति भिन्नं सूत्रम् । दक्षिणतो यज्ञोपवीत्याचान्तः कुमार उपविश्यान्वारभत इति भिन्नम् । तत्र पूर्वमर्थादाचार्यपरमुत्तरत्र कुमारग्रहणादन्यस्य चासंभवात् । अस्मिन्पक्षे पूर्वसूत्रं कर्मवशेनायं नियम इतिख्यापनार्थं ज्ञेयम् । अग्निग्रहणं त्विह परिस्तीर्णस्याग्नेः संप्रत्ययार्थम् ।

 यत्तु[] स्मृत्यन्त[]रे उक्तम्--

"त्रिभिश्चैव चतुर्भिश्च पञ्चभिः षड्भिरङ्गुलैः ।
सचनं परिधीश्चैव स्तरणं पूजनं तथा"

 इति चतुरङ्गुलात्मकपरिधिपरिधानदेशावधिकथनम् । यच्च कश्यपोक्तम्--

"नवाङ्गुलप्रमाणेन विधिना परिधीन्न्यसेत्"

 इति नवाङ्गुलात्मकपरिधिपरिधानदेशावधिकथनं तच्छाखान्तरविषयं न सत्याषाढसूत्रानुसारिविषयम् । भाष्यकृता परिस्तरणानामुपर्येव परिधिपरिधानस्योक्तत्वात् । परिधिपरिधानोत्तरमेव बर्हिरास्तरणं कार्यमन्यथा पवित्राभ्याधानपरिधिपरिधानयोर्ल्यपा बोधितस्याव्यवहितानन्तर्यस्य बाधापत्तेः । एतेनोत्पवनात्प्रागेव बर्हिस्तरणं कैश्चिदुक्तं तन्निरस्तं द्रष्टव्यम् ।

 बर्हिरास्तरणोत्तरमाज्यस्थाल्यास्तत्र सादनमुपवेषनिरसनं प्रणीतोद्वासनादनन्तरं ब्रह्मयजमाननिष्क्रमणात्प्रागेव, श्रौते दृष्टत्वात् । प्रणीतोद्वासनस्याक्रियायामुत्तरपरिषेकान्ते ।

 ततः परिषेकादि । तदुक्तं गृह्ये--

 "अथ परिषिञ्चत्यदितेऽनुमन्यस्वेति दक्षिणतः प्राचीनमनुमतेऽनुम


  1. ख त्तु गृह्यकारिकासु त्रि ।
  2. ग. घ. ङ. न्तरोक्त ।