न्यस्वेति पश्चादुदीचीन सरस्वतेऽनुमन्यस्वेत्युत्तरतः प्राचीनं देव सवितः प्रसुवेति सर्वतः प्रदक्षिणं परिषिच्येध्ममङ्क्त्वाऽभ्यादधात्ययं |
अथानन्तरमाचार्यः परिषिञ्चति सर्वतः सिञ्चति । कथम् । अदितेऽनुमन्यस्वेति दक्षिणतोऽग्नेः प्राचीनमुदकं सिञ्चति । सरस्वत इति च्छान्दसे ह्रस्वत्वे संबुद्धिलोपो गुणश्च । देव सवितः प्रसुवेति सर्वतः प्रदक्षिणं तमग्निं सिञ्चति । सावित्रहोममन्त्रस्याऽऽदिग्रहणमेतत् । छन्दोगानां तथा दर्शनादित्येके, तन्नेत्युत्तरत्र प्रतिपादयिष्यामः । अथशब्द: कुमाराधिकारनिवृत्त्यर्थः । सर्वमाचार्यकर्तृकं यावदुक्तमेव कुमारस्यावै[१]धत्वात् । प्रदक्षिणवचनं प्रत्येकं सर्वत्र मा भूत्सकृदेव परिषेको यथा स्यादित्येतदर्थम् । परिषिच्यैवमग्निमिध्ममाज्येन दर्व्याङ्क्त्वा प्रज्वलिताग्नौ हस्तेनाभ्यादधात्ययं त इध्म इत्यनेन मन्त्रेण । इध्माभ्याधानस्याजुहोतिचोदितत्वेऽपि वचनात्स्वाहाकारः । एवं सर्वसमिदाधाने द्रष्टव्यम् । परिषिच्येति वचनमन्त्रकेऽपि परिषेके दक्षिणतः प्राचीन[२]मित्यारभ्य सर्वतः प्रदक्षिणमित्यन्तः परिषेको यथा स्यान्न तु सर्वतः प्रदक्षिणमित्येतावानेवेतिख्यापनार्थं परिषेकेध्माभ्यञ्जनयोर्मध्ये कर्मान्तरप्रतिषेधार्थं च । तेन सचरुतन्त्रहोमे परिषेकात्पूर्वमेव चरूद्वासनं सिद्धं भवति ।
संग्रहे समिद्धोमे विशेषः--
"मूलतः कर्मनाशः स्यान्मध्यतः पुत्रनाशनम् । |
मूलतो मूलेन । मध्यतो मध्येन । मूलतो मध्यत इत्युभयत्रापि मुञ्चत इत्येतस्यान्वयः । मूलमध्यमप्रदेशयोर्मध्यभागे धृत्वा समिधो होतव्याः । एतदेव समिद्धोमस्य समिदभ्याधानस्य लक्षणं ज्ञेयमिति ।
"अत्रैकपाणिना समिद्धोमनिषेधेन सव्यपाण्यन्वारब्धदक्षिणपाणिना |
स्रुवधारणे विशेषो विधानमालायाम्--
"अग्रे धृतो विनाशाय धृतो मध्ये प्रजाक्षयी । |