पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/७४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
७०
[पर्यग्निकरणे तृणनिरसनविशेषः]
भट्टगोपीनाथदीक्षितविरचिता-
(परिधिपरिधानादि )
 

 आज्यनिर्वपणदेश आपस्तम्बगृह्ये-- "अपरेणाग्निं पवित्रान्तर्हितायामाज्यस्थाल्यामाज्यं निरूप्य" इति ।

 प्रयोगपारिजाते--

"अथाऽऽज्यस्थालीमादाय तस्यामाज्यं निषिच्य च ।
उदगग्नेर्निरूढेषु त्वङ्गारेषु सभस्मसु ॥
विलाप्यैतदधिश्रित्य अवज्वल्य ज्वलत्तृणैः ।
आज्ये प्रत्यस्य दर्भाग्रे अङ्गुष्ठपर्वमात्रके" इति ।

 अत्रोक्तनिरूढशब्दार्थः स्मृतिदीपिकायां व्याख्यातः--

"निरूढः स्याद्विभक्तोऽग्निर्यः परिस्तरणाद्बहिः ।
अनिरूढः स वै वह्निर्यः परिस्तृतिमध्यगः" इति ।

 एतच्च यत्राग्नेः प्रत्यूहनविधानमस्ति तत्परम् । यत्र तु प्रत्यूहनविधानं नास्ति तत्राऽऽयतनमध्य एव पृथक्करणं निरूढशब्दार्थो विद्यारण्यश्रीपादोक्तेः ।

 पर्यग्निकरणे तृणनिरसनविशेषमाह संग्रहकारः--

"पर्यग्निकरणायाग्निमनिरूढाद्यदाऽऽहरेत् ।
बहिर्निरस्य तच्छेषं निरूढाद्यदि योजयेत्" इति ।

 सुदर्शनभाष्येऽपि--

 "आज्यसंस्कारार्थानामङ्गाराणां प्रत्यूहनविधानादपवृत्ते कर्मणि लौकिकः संपद्यत इति न । अवद्योतनपर्यग्निकरणाग्न्योस्तु यदाऽऽयतनस्थादुपादानं तदाऽपवृत्तकर्मत्वेन लौकिकत्वात्त्यागः । यदा तु निरूढात्तदा तस्मिन्नेव प्रक्षेपः" इति ।

 ततः परिधिपरिधानादि । तदुक्तं गृह्ये--

 "शम्याभिः परिदधात्यपरेणाग्निमुदीचीनकुम्बां मध्यमां निदधाति दक्षिणेनाग्नि स स्पृष्टां मध्यमया प्राचीनकुम्बामुत्तरेणाग्नि सस्पृष्टां
मध्यमया प्राचीनकुम्बामपरेणाग्निं प्राङ्मुख उपविशति" इति ।

 शम्याभिः शम्याकृतिभिः परिधिभिः परिदधाति । कथम् । अपरेणाग्निमुदीचीनकुम्बां मध्यमां निदधाति । कुम्बः स्थूलप्रदेशः । दक्षिणेनाग्निं मध्यमया संस्पृष्टां प्राचीनकुम्बां दक्षिणां शम्यां निदधाति । उत्तरेणाग्निं मध्यमया संस्पृष्टां प्राचीनकुम्बामुत्तरां शम्यां निदधाति । अधरोत्तरभावः परिस्तरणवदत्रापि द्रष्टव्यः । इहाधिकारादेव सिद्धे त्रीण्यग्निग्रहणानि केवलस्याग्नेः संप्रत्ययः स्यात्परिस्तरणस्य मा भूदित्येतदर्थम् । तेनोपर्येव परिस्तरणानामग्नेः