पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/७२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
६८
[प्रोक्षणीसंस्कारादि]
भट्टगोपीनाथदीक्षितविरचिता--
(प्रोक्षणलक्षणम् )
 

मार्ष्टि । एतच्च धूल्यपसारणार्थम् । तेन धूल्यभावे न कार्यमिति केचित् । अदृष्टार्थं कर्तव्यमेवेत्यन्ये ।

 ततः पात्रं गृहीत्वा पवित्राभ्यामन्तर्हिते तस्मिन्प्रणीताप्रणयनपात्रेऽप आनीयोपबिलं पूरयेत् । यथा न स्कन्दन्त्युत्पवनादिना । तत उदगग्राभ्यां त्रिरुत्पूयोत्तरतोऽग्नेः संनिकृष्टतरे देशे दर्भेषु सादयित्वा दर्भैरपिदधातीत्यर्थः । उदगग्राभ्यां पवित्राभ्यामित्यत्र पवित्रग्रहणं हस्तयोरुदगग्रताव्यावृत्त्यर्थम् ।

"समावप्रच्छिन्नाग्रौ दर्भौ प्रादेशमात्रौ पवित्रे करोति"

 इत्येतस्मिन्कात्यायनसूत्रे देवयाज्ञिकपितृभूतिहरिस्वामिनः पवित्रयोरेव समानत्वोक्तेश्छेदनेन पवित्रे एव समे कार्ये न तु समप्रमाणौ कुशौ छित्त्वेत्यत्राऽऽग्रहः । भिन्नप्रमाणावपि च्छित्त्वा समौ कार्याविति तात्पर्यार्थ इति विशेषमाहुः ।

 ततः प्रोक्षणीसंस्कारादि । तदुक्तं गृह्ये--

"तिरःपवित्रं प्रोक्षणीः सं स्कृत्य यथापूरस्ताद्बिलवन्त्युतानानि
कृत्वा विषायेध्मं त्रिः सर्वाभिः प्रोक्षति" इति ।

 तिरःपवित्रं पवित्रे अन्तर्धाय प्रोक्षणीः संस्कृत्य । यथापुरस्तात्प्रणीतावत् । बिलवन्ति पात्राण्युत्तानानि कृत्वा विषाय विस्रस्येध्मं सर्वाभिः प्रोक्षणीपात्रस्थाभिरद्भिस्त्रिः सपवित्रेण पाणिना पात्राणि प्रोक्षति । प्रोक्षणीः संस्कृत्येत्येव सिद्धे तिरःपवित्रमिति वचनमितरधर्मनिवृत्त्यर्थम् । तेन तूष्णीं पात्रस्य त्रिः प्रक्षालनमपामानयनं करणत्वेन पृथिव्यभिध्यानसमकालं पूरणं प्रणीतास्विवात्र न भवतीति । सर्वाभिरित्यवशेषप्रतिषेधार्थम् ।

 प्रोक्षणलक्षणं संग्रहे--

"उत्तानेन तु हस्तेन कर्तव्यं प्रोक्षणं भवेत्" इति ।

 ततो दर्वीनिष्टपनादि । तदुक्तं गृह्ये--

"दर्वी निष्टप्य संमृज्य पुनर्निष्टप्य निदधाति संमार्गानभ्युक्ष्याग्नावादधाति" इति ।

 दर्वीमग्नौ निष्टप्य संमृज्य पुनरग्नौ निष्टप्य निदधाति । जुहूवत्संमार्ग इत्युपदिशन्ति । चरुहोम उपस्तरणाभिधारणाद्यर्थं स्रुवस्याप्यपेक्षितत्वात्तस्य च संस्कृतस्यैवोपस्तरणाभिधारणादिरूपकर्मनिष्पादने योग्यत्वादासादनप्रोक्षणनिष्टपनसंमार्गादिरूपाः संस्कारा दर्वीवत्स्रुवस्यापि कार्याः । ते च दर्व्या सहैव । संमार्गस्तु श्रौतस्रुवसंमार्गवत्प्रथममेव कर्तव्यः । निधानं दर्भेष्विति केचित् । संमार्गदर्भानद्भिरभ्युक्ष्याग्नौ प्रहरतीत्यर्थः ।