म्याग्नेरदूरेणापरभागेण दक्षिणतो दक्षिणेन पदाऽतिक्रम्य ब्रह्मसदनस्य पश्चात्प्राङ्मुखः स्थित्वा स्वसदनात्तृणं निरस्याप उपस्पृश्याग्निमभिमुख उपविशति । एतस्मिन्काल इति वचनं वैदिकेऽपि पात्रासादनानन्तरमेव ब्रह्मणः प्रवेशो नार्वागित्येतदर्थम् । यज्ञोपवीतग्रहणं कर्माङ्गस्याऽऽविकाजिनस्य वाससो वोपादानार्थम् । पित्र्ये वा तस्य प्राचीनावीतित्वनिराकरणार्थम् । अथ वा यज्ञोपवीतस्यापि प्राधान्यख्यापनार्थम् । तेन ब्रह्मालाभे तत्स्थाने यज्ञोपवीतं वा स्यात् । "अथैकेषामुक्तं छत्रं यज्ञोपवीतं कमण्डलुं वा" इति । अथवैतस्मिन्काल इति वचनमनित्यः पुरुषो नित्यः काल इतिज्ञापनार्थम् । तेन च्छत्रादीनामेको वा ब्रह्मणः स्थानेऽवश्यं स्यादिति । अप आचम्येत्यनेन शुद्धस्यापि कर्माङ्गं पुनराचमनं विधीयते । अपरेणेत्यनेन पात्रहोमकर्तुरन्तरङ्गत्वं बाध्यते । ब्रह्मणः सदनमासनं तस्मात्तृणं निरस्येदित्यर्थः । ब्रह्मेति वचनमन्येषामप्यासनानि सन्तीति गमयति । तेन सर्वैरप्यृत्विग्भिः स्वस्वासन उपविश्यैव कर्म कर्तव्यं न तु केवलं भूमिष्ठैरिति । यजमानेन श्रौते दर्शनात्स्वासनात्तृणनिरसनमपि कार्यम् । ब्रह्मसदनात्तृणं निरस्येति दर्शनात्तृणमयमासनमिति गम्यते । स्मृतित एव निरसनोत्तरमुदकस्पर्शे सिद्धे पुनर्वचनं श्रौतप्रायश्चित्तार्थम् । एतच्च यज्ञोपवीतकरणादिकं सर्वं स्वकर्म यजमानेन वृतः सन्नेव कुर्यात् । नावृता याजयेयुरिति वरणरहितस्य कर्मणि प्रवृत्तिनिषेधात् । ऋत्विक्त्वं तु वरणभरणाधीनमित्यृत्विगधिकरणे मीमांसकैर्विस्तरेण प्रपञ्चितमस्ति तत्तत्र द्रष्टव्यम् । श्रौते तु सत्रे वरणभरणाभावेऽपि होत्रादिसंज्ञानिर्वाहार्थं संकल्पविशेषस्यापि निमित्तता मीमांसकैरङ्गीकृता ।
ततः पवित्रकरणादि । तदुक्तं गृह्ये--
"समावप्रच्छिन्नाग्रौ दर्भौ प्रादेशमात्रौ पवित्रे कृत्वाऽन्येन नखाच्छित्त्वाऽद्भिरनुमृज्य पवित्रान्तर्हिते पात्रेऽप आनीयोपबिलं पूरयित्वोदगग्राभ्यां पवित्राभ्यां त्रिरुत्पूयोत्तरेणाग्निं दर्भेषु सादयित्वा दर्भैरपिदधाति" इति ।
समौ वर्णरूपाभ्यां, दैर्घ्येण साम्यस्य तु प्रादेशमात्रावित्यनेनैव सिद्धत्वात् । प्रच्छिन्नाग्रावित्यत्र प्रशब्दो दुर्लक्ष्यसाग्रतानिवृत्त्यर्थः । प्रादेशमात्रौ प्रादेशप्रमाणावेतादृशौ यौ दर्भौ तौ पवित्रौ पवनयोग्यौ संस्कारैः करोति । पवित्रशब्दो यद्यपि विशेष्यलिङ्गोऽस्ति तथाऽपि पवनसाधने नपुंसक एव दृश्यते । द्विवचनं तूद्भूतावयवत्वात् । भूमौ तृणं काष्ठं वाऽन्तर्धाय दर्भावग्रे प्रादेशमात्राववशेषयंस्तदुपरि धृत्वा तच्च नखादन्येनासिदेन काष्ठेन वा छित्त्वा पवनयोग्यौ करोति । कृत्वाऽद्भिरनुमार्ष्टि मूलादारभ्याग्रपर्यन्तं सोदकेन हस्तेन