पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/७३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
[आज्यविलापनादि]
६९
संस्काररत्नमाला ।

 अभ्युक्षणलक्षणं संग्रहे--

"मुष्टी कृत्वा तु तत्तोयमभ्युक्षणमिति स्मृतम्" इति ।

 तत आज्यविलापनादि । तदुक्तं गृह्ये--

 "आज्यं विलाप्य पवित्रान्तर्हितायामाज्यस्थाल्यामाज्यं निरुप्योदीचोऽङ्गारान्निरू(रु)ह्य तेष्वधिश्रित्यावद्योत्य दर्भतरुणाभ्यां प्रत्यस्य त्रिः पर्यग्नि कृत्वोदगुद्वास्याङ्गारान्प्रत्यू[१](त्यु)ह्योदगग्राभ्यां पवित्राभ्यां पुनराहारमाज्यं त्रिरुत्पूय पवित्रे अग्नावाधाय" इति ।

 आज्यं बहिरेव विलाप्य द्रवीकृत्य पवित्रान्तर्हितायामाज्यस्थाल्यामाज्यं निर्वपेत् । पुनराज्यग्रहणं प्राधान्यख्यापनार्थम् । तेन गव्यमाज्यं स्यात् । द्रव्यान्तरसंसर्गप्रतिषेधार्थं च । तेन शोधयित्वोपरिपवनेन ग्राह्यम् । तत उदीच उदग्भागस्थानङ्गारान्केनचित्काष्ठेन निरू(रु)ह्य तेषु निरूढेष्वङ्गारेष्वाज्यमधिश्रित्यावद्योत्य दर्भैरवाचीनज्वालैरुपरि ज्वलयित्वा दर्भतरुणाभ्यां दर्भाग्राभ्यां प्रत्यस्य तस्मिंस्ते प्रास्योल्मुकेन त्रिः पर्यग्नि कृत्वोत्तरतस्तदुद्वास्य तानङ्गारांस्तेनैव काष्ठेन प्रत्यू(त्यु)ह्याग्नौ पुनः प्रक्षिप्योदगग्राभ्यां[२] पवित्राभ्यां पुनराह्र[३]त्योत्पुनाति । एवमत्र क्रमः । आज्यस्थाल्यां पवित्रे पश्चाद्भागमारभ्य प्राग्भागं नीत्वा पुनः पश्चाद्भागमानीयोत्पुनाति । पुनर्द्विरेवमेव । श्रुत्यैव प्रत्यगपवर्गताऽत्र विहितोत्सर्गस्य बाधिका । ब्राह्मणे-- "पुनराहारमेवमिव हि प्राणापानौ संचरतः" इति पवित्रयोः प्राणापानरूपयोः संचार उक्तः । प्राणो हि प्रागपवर्गं संचरति तस्य मुखनासिकानिरोधेन यतो निरोधः । अपानः प्रत्यगपवर्गं तस्य निरोधोऽपानद्वारलिङ्गनिरोधेन यतो दृश्यते । तस्मात्प्राणापानगतिभ्यां क्रमिकाभ्यां पुनराहारे प्रत्यगपवर्गता न निवार्येति । पुनराहारमिति णमुल्प्रत्ययान्तम् । पुनराहारोऽङ्गमुत्पवनस्य । पुनराज्यग्रहणं नवनीतस्यापि पितृयज्ञ उत्पवने पुनराहारधर्मो मा भूदित्येतदर्थम् । अपरे पूर्वमाज्यग्रहणं तूष्णीकेनाऽऽज्येनेत्यत्रायमेव संस्कारविधिर्नतु मन्त्रवर्जं दर्शपौर्णमासिक इत्येतदर्थमित्याहुः ।

 पवित्रे अग्नावाधायेत्यत्र पुनः पवित्रग्रहणं विस्रस्य पृथग्भूतयोः सहाभ्याधानार्थम् । व्यक्तं च बौधायनीये-- "पवित्रे विस्रस्याद्भिः संस्पृश्याग्नावनुप्रहरति" इति । यस्तु पर्यग्निकरणे दर्भद्वयोल्मुकयोः समुच्चयो गृह्यकारिकाकृतोक्तः स प्रमाणाभावादुपेक्ष्यः ।


  1. ग. घ. ङ. त्यूह्य पु ।
  2. ग. घ. ङ. भ्यां पु ।
  3. ग घ. ङ. हृत्याऽऽह्रत्यो ।