नमोऽस्तु तेभ्यः सु० ॥ ८ ॥ ये सर्पाः पर्वताग्रेषु दरीसंधिषु |
देशकालौ संकीर्त्य कृतस्य सर्पसंस्कारकर्मणः साङ्गतासिद्ध्यर्थमिमं सुवर्णमयं नागं सकलशं सवस्त्रं सदक्षिणं तुभ्यमहं संप्रददे न मम, इति दत्त्वाऽनेन सुवर्णनागदानेनानन्तादयो नागाः प्रीयन्तामिति वदेत् ।
तत आचार्याय गोदानं देयम् । गामाचार्य च संपूज्येमां सवत्सां कृष्णां गां सुवर्णशृङ्गीं रौप्यखुरीं ताम्रपृष्ठीं(ष्ठां) कांस्यदोहां सवस्त्रां सदक्षिणां वृषभयुतां तुभ्यमहं संप्रदद इत्याचार्याय दद्यात् । अनेनानन्तादयः प्रीयन्तामिति वदेत् । गोरभावे मूल्यं देयम् । तत आचार्यः शुद्धोदकेन सकुटुम्बं यजमानमभिषिञ्चेत् ।
ततः कर्ता मया यत्कृतं कर्म तत्सर्वमच्छिद्रमस्त्विति भवन्तो ब्रुवन्त्विति प्रार्थ्याच्छिद्रमस्त्विति तैः प्रत्युक्ते कृतस्य कर्मणः साङ्गतासिद्धये ब्राह्मणभोजनं भूयसीदानं च विधाय, यस्य स्मृत्या० । प्रमादात्कु० इति विष्णुं संस्मृत्य, अनेन सर्पसंस्काराख्येन(ण) कर्मणा सर्पाधिनाथोऽनन्तः प्रीयतामिति वदेत् ।
ततः सुहृद्युतो भोजनं कुर्यात्[१] ।
जीवत्पितृकस्य नारायणबलिनागबली न भवतः ।
इति नागबलिप्रयोगः ।
एवमपि फलासिद्धौ महार्णवोक्तो विधिः कार्यः ।
स च वायुपुराणे--
"चतुर्विधा च या वन्ध्या भवेद्वत्सवियोजनात् । |
- ↑ क. ख. त् । इ ।