([१]कर्ता जीवत्पित्रादिकश्चेत्तदा केशसंरक्षणार्थं पूर्वोक्तं प्रायश्चित्तं द्विगुणं कुर्यात् । तत्र क्रमः--प्रधानप्रायश्चित्तसंख्येन केशसंरक्षणार्थं प्रायश्चित्तेन सह चतुर्दशकृच्छ्रात्मकं प्रायश्चित्तमहं करिष्य इति संकल्प्य भस्मस्नानादि कुर्यादिति ।)
ततो विष्णुपूजनविष्णुश्राद्धगोदानव्याहृतिहोमपञ्चगव्यहोमान्कुर्यात् । तत्र विष्णुपूजनमिदं विष्णुरितिमन्त्रेण विष्णुश्राद्धसिद्ध्यर्थं विप्रानाहूय संपूज्य तेभ्यश्चत्वार्यामान्नानि दद्यात् ।
विष्णुश्राद्धस्य मुख्यविधिस्तु श्राद्धप्रकरणे वक्ष्यते ।
जीवत्पितृकस्य तु न विष्णुश्राद्धमिति केचित् ।
ततो विप्रं गां च संपूज्य तस्मै यथाविभवकल्पितोपस्कारसहितां गां दद्यात् । गोरभावे तन्मूल्यं वा ।
ततो व्याहृतिहोमः--कर्ताऽऽचम्योल्लेखनादिसंस्कृत आयतने लौकिकमग्निं विण्नामानमग्निं प्रतिष्ठापयामीति प्रतिष्ठाप्य प्रज्वाल्य ध्यात्वा समित्त्रयमादाय श्रद्ध एहीत्यादिप्राणायामान्तं कृत्वा सर्पसंस्काराधिकारा[२]र्थप्रायश्चित्ताङ्गभूतहोमकर्मणि या यक्ष्यमाणा देवतास्ताः सर्वाः परिग्रहीष्यामि । प्रथमया व्याहृत्याऽग्निं सप्तभिराज्याहुतिभिः, द्वितीयया व्याहृत्या वायुं सप्तभिराज्याहुतिभिः, तृतीयया व्याहृत्या सूर्यं सप्तभिराज्याहुतिभिः, समस्तव्याहृतिभिः प्रजापतिं सप्तभिराज्याहुतिभिर्यक्ष्ये । पञ्चगव्यहोमे--अ[३]ग्निमेकया पञ्चगव्याहुत्या सो[४]ममेकया पञ्चगव्याहुत्या विष्णुं तिसृभिः पञ्चगव्याहुतिभी रुद्रमेकया पञ्चगव्याहुत्या । अत्रोदकस्पर्शः । सवितारमेकया पञ्चगव्याहुत्या ब्रह्मैकया पञ्चगव्याहुत्या परमात्मानमग्निं वा प्रणवेन चतुर्थभागेन यावत्य आहुतयो भवन्ति तावतीभिराहुतिभिर्यक्ष्ये । एता देवताः सद्यो यक्ष्य इत्युक्त्वा समिधोऽग्नावाधायाग्निं परिस्तीर्योत्तरेणाग्निं दर्भान्संस्तीर्य तेषु दर्वीं सप्तपत्रात्मकान्हरितान्कुशानाज्यस्थालीं पञ्चगव्यार्थं ताम्रपात्रं प्रोक्षणीपात्रमुपवेषं संमार्गदर्भानवज्वलनदर्भान्बर्हिरेकां समिधमाज्यं पञ्च गव्यानीत्यासाद्य पवित्रे कृत्वा प्रोक्षणीः संस्कृत्य पात्राणि पञ्च गव्यानि च प्रोक्ष्य दर्वीं सप्तपत्रात्मकान्कुशांश्च संमृज्य तत्तन्मन्त्रैः पञ्च गव्यानि पवित्रान्तर्हिते ताम्रपात्र