पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/७११

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
[नागबलिप्रयोगः]
७०३
संस्काररत्नमाला

एकीकृत्य देवस्य त्वेति सप्तसंख्यैः कुशैरुदकं तस्मिन्स्रावयित्वाऽऽपो हि ष्ठेति त्रिभिर्मन्त्रैरालोडयेत् ।

 तत आज्यविलेपनादि । आज्यपर्यग्निकरणकाले पञ्चगव्यस्यापि पर्यग्निकरणम् । पवित्राभ्याधानान्तेऽग्नेः पश्चाद्बर्हिरास्तीर्य तत्राऽऽज्यस्थालीं पञ्चगव्यपात्रं च निधाय तदुत्तरतो दर्वीं सप्तपत्रात्मकान्कुशांश्च निधायादित इति परिषिच्य आसादितां समिधं तूष्णीमभ्याधाय दर्व्या सप्तवारमावृत्ताभिर्व्यस्ताभिः समस्ताभि[१]श्च व्याहृतिभिराज्याहुतीर्जुहुयात् ।

 ततः सप्तपत्रात्मकान्कुशानादाय तैरुद्धृ[२]त्योद्धृत्य जुहोति । अग्नये स्वाहा सोमाय स्वाहेतिद्वयोर्वामदेवो विश्वे देवा वा ऋषिः । अग्निसोमौ क्रमेण देवता । यजुः । इरावतीत्यस्य सोमो विष्णुस्त्रिष्टुप् । इदं विष्णुरित्यस्य सोमो विष्णुर्गायत्री । विष्णोर्नुकमित्यस्य सोमो विष्णुस्त्रिष्टुप् । मा नस्तोक इत्यस्याग्निर्विश्वे देवा वा रुद्रस्त्रिष्टुप् । तत्सवितुरित्यस्या गायत्र्या विश्वामि[३]त्रोऽग्नि[४]श्चर्षिः सविता देवता गायत्री छन्दः । ब्रह्म जज्ञानमित्यस्याग्निर्ब्रह्म[५] त्रिष्टुप् । प्रणवस्याग्निः परब्रह्म[६]र्षिः परमात्माऽग्निर्वा देवता गायत्री छन्दः । सर्वेषां पञ्चगव्यहोमे विनियोगः--

 'ॐ अग्नये स्वाहा' अग्नय इदं० । 'ॐ सोमाय स्वाहा' सोमायेदं० । 'ॐ इरावती० मयूखैः स्वाहा' विष्णव इदं० ।'ॐ विष्णोर्नुकं वीर्याणि० गाय स्वाहा' विष्णव इदं० । 'ॐ मा नस्तोके त० विधेम ते स्वाहा' रुद्रायेदं० । अप उपस्पृश्य । 'ॐ तत्सवितु० यात्स्वाहा' सवित्र इदं० । 'ॐ ब्रह्म जज्ञा० वः स्वाहा' ब्रह्मण इदं० । “ॐ स्वाहा” इति प्रणवेन यावतीभिरा[७]हुतिभिश्चतुर्थभागहोमो भवति तावतीरा[८]हुतीस्तैः कुशैरेव जुहुयात् । परमात्मन इदं० । अग्नय इदमिति वा ।

 ततोऽवशिष्टं पञ्चगव्यं प्रणवेनाऽऽलोड्य प्रणवेनाभिमन्त्र्य व्रतग्रहणं करिष्य इति द्विजा[९]न्पृष्ट्वा कुरुष्वेति तैरनुज्ञात आसनाद्बहिरुपविश्य प्रणवेन सर्वं पिबेत् ।

 ततो [१०]मुखहस्तपादान्प्रक्षाल्य द्विवारमाचम्याऽऽसन उपविश्य ([११]ततः स्विष्टकृदादिहोमशेषं समाप्य) पर्षदुपदिष्टचतुर्दशकृच्छ्रात्मकप्रायश्चित्तमाचरेत् ।



  1. क. भिर्व्याहृ ।
  2. च. द्धृत्य ।
  3. क. मित्र ऋषिः स ।
  4. च. ग्निर्ऋषिः स
  5. ग. च. र्ब्रह्मा त्रि ।
  6. ग. ह्म प ।
  7. ग. राज्याहु ।
  8. ग. राज्याहु ।
  9. ग. ड. च. जान्स्पृष्टा ।
  10. मध्यपदलोपिसमासेन साधुत्वम् ।
  11. धनुश्चिह्नान्तर्गतो ग्रन्थः क. पुस्तके बहिर्लिखितोऽस्ति तद्व्यतिरिक्तपुस्तकेषु तु नास्त्येव ।