प्रसादैः क्रियतां मह्यं शुभानुज्ञां प्रयच्छथ ॥ |
इति श्लोकान्पठित्वा मामनुगृह्णन्तु भवन्त इति पर्षदं प्रणमेत् ।
ततः कर्ता निबन्धपूजनं पर्षत्पूजनमनुवादकपूजनं च कुर्यात् । अनुवाद[१]काय भृतिरूपां यथाशक्ति दक्षिणां दद्यात् ।
ततोऽनुवादकोऽमुकशर्मणा त्वयेह जन्मनि जन्मान्तरे वा ज्ञानादज्ञानाद्वा कृतेन सर्पवधेन जनितस्य[२] दोषस्य परिहारार्थं पर्षदुपदि[३]ष्टचतुर्दशकृच्छ्राचरणपूर्व[४]कयथाविधिसर्पसंस्कारं कृत्वा त्वं शुद्धो निरुपद्रवो भविष्यसीत्युपदेशस्त्रिः ।
ततः कर्ता, ओमित्यङ्गीकृत्य पर्षदं नमस्कृत्य विसर्जयेदनुवादकं च ।
तत आचम्य प्राणानायम्य देशकालौ संकीर्त्यामुकशर्मणा मयेह जन्मनि जन्मान्तरे वा ज्ञानादज्ञानाद्वा कृतेन सर्पवधेन जनितस्य[५] दोषस्य परिहारार्थं पर्षदुपदि[६]ष्टचतुर्दशकृच्छ्रात्मकं प्रायश्चित्तममुकप्रत्याम्नायद्वारा करिष्य इति संकल्प्य,
"यानि कानि च पापानि ब्रह्महत्यासमानि च । |
इति शिखाकक्षोपस्थवर्जं [७]केशश्मश्रुनखरोमाणि वापयित्वा,
"आयुर्बलं यशो वर्चः प्रजाः पशुवसूनि च । |
इति वनस्पतिं प्रार्थ्य तस्मात्प्रादेशमात्रं काष्ठं गृहीत्वा,--
"मुखदुर्गन्धिनाशाय दन्तानां च विशुद्धये । |
इति तेन काष्ठेन दन्तान्संशोध्य द्वादश गण्डूपान्कृत्वा वक्ष्यमाणोत्सर्जनरीत्या भस्मगोमयमृत्तिकास्नानानि विधाय पञ्चगव्यैः कुशोदकेन च तत्तन्मन्त्रैः स्नानं कृत्वाऽऽपो हि ष्ठेति त्रिभिर्मन्त्रैः शुद्धोदकेन स्नात्वा वक्ष्यमाणस्नानविधिना स्नानं कुर्यात् ।