पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/६७९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
[गर्भाधानप्रकरणम्]
६७१
संस्काररत्नमाला
( उदक्यान्योन्यस्पर्शे श्वशूद्रादिस्पर्शने च शुद्धिप्रकारः )
 

 चन्द्रदर्शनं नक्तमित्यर्थः । एतदशक्तायाश्चतुर्थदिनविषयं वा । रजकादिस्पर्श तु श्वस्पर्शसमानमेव, तयोः समानत्वादिति शूलपाणिः ।

 यत्तु प्रचेताः--

"रजस्वला तु संस्पृष्टा शुना चण्डालरासभैः ।
पञ्चरात्रं निराहारा पञ्चगव्येन शुध्यति" ॥

 इति, तत्कामतोऽभ्यासे । भोजनकाले श्वान्त्यजादिस्पर्शे तु बौधायनः--

"रजस्वला तु भुञ्जाना श्वान्त्यजादीन्स्पृशेद्यदि ।
गोमूत्रयावकाहारा षड्रात्रेण विशुध्यति ॥
अशक्तौ काञ्चनं दद्याद्विप्रेभ्यो वाऽथ भोजनम्" इति ॥

स्मृत्यन्तरे--

"पुष्पिणी संस्पृशेन्मोहादशुद्धं वा नरं क्वचित् ।
स्नानादर्वाङ्न भुञ्जीत भुक्त्वा कृच्छ्रं समाचरेत् ॥
स्पृष्ट्वोदक्या पञ्चनखान्द्विशफैकशफान्पशून् ।
अण्डजानि च सर्वाणि नाद्यादास्नानवासरात्" इति ॥

 उच्छिष्टयोः परस्परं स्पर्शे त्वत्रिः--

"उच्छिष्टोच्छिष्टसंस्पृष्टा कदाचित्स्त्री रजस्वला ।
कृच्छ्रेण शुध्यते पूर्वा शूद्रा दानेन शुध्यति" इति ॥

 दानं पादकृच्छ्रसमम् । अत्र पूर्वाशब्देन ब्राह्मणक्षत्रियवैश्यस्त्रियोऽभिधीयन्ते । तेन रजस्वलयोः समानजातीययोर्ब्राह्मणीक्षत्रियावैश्यानां परस्परं स्पर्शे प्राजापत्यम् । असमानजातीययोः स्पर्शे त्वेकैकवृद्धिरूहनीया । तादृशशूद्रयोः परस्परं स्पर्शे तूपवाससहितप्राजापत्याम्नायदानेन शुद्धिः । एतच्च कामतः । अकामतस्तदर्धम् ।

 शूलपाणिस्तु--

"उच्छिष्टेन तु संस्पृष्टा कदाचित्स्त्री रजस्वला ।
कृच्छ्रेण तु विशुध्येत शूद्रा दानेन शुध्यति" ॥

 इति पपाठ । उच्छिष्टेन चण्डालादिनेत्यर्थः । अत्रापि दानं पादकृच्छ्रसमम् । एषु रजस्वलात्वमेव निमित्तम् । अतो न क्षत्रियावैश्ययोर्ब्राह्मण्यादि(णी)भ्यो विशेष इत्यपि शूलपाणिः ।

 उच्छिष्टद्विजसंस्पर्शे तु मार्कण्डेयः--

"द्विजान्कथंचिदुच्छिष्टान्संस्पृशेच्चेद्रजस्वला ।
अधोच्छिष्टे त्वहोरात्रमूर्ध्वोच्छिष्टे त्र्यहं क्षिपेत्" इति ॥