चन्द्रदर्शनं नक्तमित्यर्थः । एतदशक्तायाश्चतुर्थदिनविषयं वा । रजकादिस्पर्श तु श्वस्पर्शसमानमेव, तयोः समानत्वादिति शूलपाणिः ।
यत्तु प्रचेताः--
"रजस्वला तु संस्पृष्टा शुना चण्डालरासभैः । |
इति, तत्कामतोऽभ्यासे । भोजनकाले श्वान्त्यजादिस्पर्शे तु बौधायनः--
"रजस्वला तु भुञ्जाना श्वान्त्यजादीन्स्पृशेद्यदि । |
स्मृत्यन्तरे--
"पुष्पिणी संस्पृशेन्मोहादशुद्धं वा नरं क्वचित् । |
उच्छिष्टयोः परस्परं स्पर्शे त्वत्रिः--
"उच्छिष्टोच्छिष्टसंस्पृष्टा कदाचित्स्त्री रजस्वला । |
दानं पादकृच्छ्रसमम् । अत्र पूर्वाशब्देन ब्राह्मणक्षत्रियवैश्यस्त्रियोऽभिधीयन्ते । तेन रजस्वलयोः समानजातीययोर्ब्राह्मणीक्षत्रियावैश्यानां परस्परं स्पर्शे प्राजापत्यम् । असमानजातीययोः स्पर्शे त्वेकैकवृद्धिरूहनीया । तादृशशूद्रयोः परस्परं स्पर्शे तूपवाससहितप्राजापत्याम्नायदानेन शुद्धिः । एतच्च कामतः । अकामतस्तदर्धम् ।
शूलपाणिस्तु--
"उच्छिष्टेन तु संस्पृष्टा कदाचित्स्त्री रजस्वला । |
इति पपाठ । उच्छिष्टेन चण्डालादिनेत्यर्थः । अत्रापि दानं पादकृच्छ्रसमम् । एषु रजस्वलात्वमेव निमित्तम् । अतो न क्षत्रियावैश्ययोर्ब्राह्मण्यादि(णी)भ्यो विशेष इत्यपि शूलपाणिः ।
उच्छिष्टद्विजसंस्पर्शे तु मार्कण्डेयः--
"द्विजान्कथंचिदुच्छिष्टान्संस्पृशेच्चेद्रजस्वला । |