सामग्री पर जाएँ

पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/६७८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
६७०
भट्टगोपीनाथदीक्षितविरचिता-- [गर्भाधानप्रकरणम्]
( उदक्यान्योन्यस्पर्शे श्वशूद्रादिस्पर्शने च शुद्धिप्रकारः )
 

 यत्तु शातातपः--

"उदक्या सूतिका वाऽपि शवान्त्यं संस्पृशेद्यदि ।
त्रिरात्रेणैव शुध्येतेत्याह वार्ष्यायणिमुनिः" इति ।

 तथा स्मृत्यन्तरम्--

"चण्डाल(लं)श्वपचैर्वाऽ(चं वाऽ)पि आत्रेयीं(यो) स्पृशते यदि ।
त्रिरात्रोपोषिता भूत्वा पञ्चगव्येन शुध्यति" इति ॥

 तथा कात्यायनः--

"चण्डालेन तु संस्पृष्टा कदाचित्स्त्री रजस्वला ।
तान्यहानि व्यतिक्रम्य प्रायश्चित्तं समाचरेत् ॥
त्रिरात्रमुपवासः स्यात्पञ्चगव्येन शोधनम्" ।

 इति, तदेतत्प्रथमदिनविषयम् ।

 उपवासासमर्थायां त्वङ्गिराः--

"चण्डालः श्वपचो वाऽपि यद्यात्रेयीं स्पृशेद्यदि(र्तदा)।
अकालकृष्टैर्वर्तेत पञ्चगव्येन शुध्यति" इति ॥

 पञ्चगव्यपानं तु स्नानानन्तरं ज्ञेयम् ।

 चण्डालेन सहैकवृक्षाद्यारोहणे पराशरः--

"एकवृक्षसमारूढा चण्डालेन रजस्वला ।
अहोरात्रोषिता भूत्वा पञ्चगव्येन शुध्यति" इति ॥

 श्वादिस्पर्शे विशेषमाह यमः--

"रजस्वला तु संस्पृष्टा शुना ज[]म्बूकवायसैः ।
निराहारा भवेत्तावद्यावत्कालेन शुध्यति" इति ॥

 एतदकामतः ।

 कामतस्तु रजस्वलानुवृत्तौ बृहस्पतिः--

"शुना चोच्छिष्टयाऽशूद्रा संस्पृष्टा द्व्यहमाचरेत् ।
अहोरात्रं तृतीयेऽह्नि परतो नक्तमाचरेत्" इति ॥

 प्रथमद्वितीयदिने श्वादिस्पर्शे द्व्यहं, तृतीये दिनेऽहोरात्रं, परतश्चतुर्थेऽह्नि नक्तमित्यर्थः । अत्रापि तान्यहानि व्यतिक्रम्येति योज्यम् ।

 बौधायनः--

"रजस्वला तु संस्पृष्टा ग्राम्यकुक्कुटसूकरैः ।
श्वभिः स्नात्वा पिबेत्तावद्यावच्चन्द्रस्य दर्शनम्" इति ॥



  1. च. जम्बुक ।