पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/६३१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
[औपासनहोमः]
६२३
संस्काररत्नमाला
( पक्षहोमप्रयोगः )
 

 अत्र तन्तुमतीष्टिस्थाने तान्तुमतः स्थालीपाकः ।

"य आहिताग्नेः पुरोडाशास्तेऽनाहिताग्नेश्चरवः" ।

 इति शास्त्रान्तरात् ।

यज्ञपार्श्वे तु--

"अनातुरोऽप्रवासी च निश्चिन्तो निरुपद्रवः ।
पक्षहोमं तु यो दद्यात्स चरेत्पतितव्रतम्" इति ॥

 पूर्वं प्रायश्चित्तमनभ्यासविषयम् । यज्ञपार्श्वोक्तं त्वभ्यासविषयमिति व्यवस्था । समुच्चय इति केचित् । एवं संततं पक्षत्रयं न कर्तव्यम् ।

 तथा च मण्डनः--

"तृतीयेऽनन्तरे पक्षे समासं न समाचरेत्" इति ।

 तथा--

"कृच्छ्रेणापि विनिर्वृत्य तत्र होमान्दिने दिने ।
पक्षान्तरे पुनः कामं पक्षहोमादिमाचरेत्" इति ॥

 सर्वथैतदसंभवे स एवाऽऽह--

"आपच्चेदनुवर्तेत यावज्जीवं कथंचन ।
यावज्जीवमविच्छिन्नान्पक्षहोमान्समाचरेत्" इति ॥

 यत्तु चन्द्रिकायां--

"यदि पक्षहोमेन पक्षत्रयमतीयात्पुनराधानम्" इति तदनापत्तिपरम् ।

 विशेषः स्मृतिभास्करे--

"सर्वथौपवसथ्याहे सायं होमः पृथग्भवेत् ।
तथैव यजनीयेऽह्नि प्रातर्होमो भवेत्पृथक्" इति ॥

मण्डनः[१] --

"पर्वोपवासशून्यं चेत्प्राप्तं केनापि हेतुना ।
तदा तत्सायंहोमोऽपि पूर्वैः सह समस्यते" इति ॥

अथ प्रयोगः ।

 आपन्निमित्तं प्रतिपत्सायंकालमारभ्य चतुर्दशीसायंकालपर्यन्तममुकसंख्याकान्सायमौपासनहोमानापन्निमित्तं द्वितीयाप्रातःकालमारभ्य पौर्णमासीप्रातःकालपर्यन्तममुकसंख्याकान्प्रातरौपासनहोमांश्चापकृष्य तन्त्रेण होष्यामि । तत्रेदानीमापन्निमित्तं प्रतिपत्सायंहोममारभ्य चतुर्दशीसायंकालपर्यन्तममुकसंख्याकान्सायमौपासनहोमांस्तन्त्रेण व्रीहिभिर्यवैर्वा होष्यामीति सायम् ।



  1. ख. ग. ड. च. नः--पूर्वो ।