अग्निहोत्राणामित्यनेनाग्निहोत्रहोमतुल्यत्वादौपासनहोमानामपि ग्रहणम् ।
'य आहिताग्नेर्धर्मः स्यात्स औपासनिकस्य तु' इत्युक्तेः । अशेषान्पक्षत्यादीन्पक्षान्तावधिकान् । शेषान्यत्किंचित्पूर्वावधिकान् ।
यत्तु--
"तृतीयायां चतुर्थ्यां वा पञ्चम्यां वा परत्र च । |
इति त्रिकाण्डीवचनात्तृतीयाया एवं पूर्वावधित्वं न तु द्वितीयाया इति वदन्ति तत्पामरप्रतारणमात्रम् । एतस्य वचनस्य त्रिकाण्ड्यामनुपलम्भात् ।
मरीचिः--
"शरीरापद्भवेद्यत्र भयार्तश्च प्रजायते । |
चेदित्यनेन विकल्पः सूच्यते । पक्षहोमग्रहणं शेषहोमोपलक्षणमित्याचाररत्ने ।
बौधायनोऽपि--
"अथाऽऽपद्यग्निहोत्राणां समासो राष्ट्रविभ्रमे व्याधिपीडा- |
अग्निहोत्राणामग्निहोत्रसंबन्धिनां होमानाम् । राष्ट्रविभ्रमो राष्ट्रविक्षोभः । विशिष्ट आधिर्व्याधिर्मानसं दुःखं, पीडा बाह्यं दुखम् । अत्ययो नाशः । बलवतो निरोधो बलवत्कर्तृको निरोधः । बलवति निरोधादावितिपाठे बलवत्त्वविशेषणं निरोधादीनां द्रष्टव्यम् ।
मण्डनोऽपि-- "आपदेवावधिस्तत्र न पक्षगणनावधिः" इति ।
आलस्यादिना समस्यहोमे दोषमाह गोपालः--
"नैतज्जामितया कार्यं न रागान्न च लोभतः । |
जामिताऽऽलस्यम् । शक्तिमाञ्जामितया रागेण लोभेन वा नैतत्समस्यहोमविधिमनुतिष्ठेत् । आपदि त्वनुतिष्ठेदेव । अनापदि यद्यनुतिष्ठेत्तदा तन्तुमत्येष्ट्या यजेदित्यर्थः ।