अत्र तन्तुमतीष्टिस्थाने तान्तुमतः स्थालीपाकः ।
"य आहिताग्नेः पुरोडाशास्तेऽनाहिताग्नेश्चरवः" । |
इति शास्त्रान्तरात् ।
यज्ञपार्श्वे तु--
"अनातुरोऽप्रवासी च निश्चिन्तो निरुपद्रवः । |
पूर्वं प्रायश्चित्तमनभ्यासविषयम् । यज्ञपार्श्वोक्तं त्वभ्यासविषयमिति व्यवस्था । समुच्चय इति केचित् । एवं संततं पक्षत्रयं न कर्तव्यम् ।
तथा च मण्डनः--
"तृतीयेऽनन्तरे पक्षे समासं न समाचरेत्" इति । |
तथा--
"कृच्छ्रेणापि विनिर्वृत्य तत्र होमान्दिने दिने । |
सर्वथैतदसंभवे स एवाऽऽह--
"आपच्चेदनुवर्तेत यावज्जीवं कथंचन । |
यत्तु चन्द्रिकायां--
"यदि पक्षहोमेन पक्षत्रयमतीयात्पुनराधानम्" इति तदनापत्तिपरम् । |
विशेषः स्मृतिभास्करे--
"सर्वथौपवसथ्याहे सायं होमः पृथग्भवेत् । |
मण्डनः[१] --
"पर्वोपवासशून्यं चेत्प्राप्तं केनापि हेतुना । |
अथ प्रयोगः ।
आपन्निमित्तं प्रतिपत्सायंकालमारभ्य चतुर्दशीसायंकालपर्यन्तममुकसंख्याकान्सायमौपासनहोमानापन्निमित्तं द्वितीयाप्रातःकालमारभ्य पौर्णमासीप्रातःकालपर्यन्तममुकसंख्याकान्प्रातरौपासनहोमांश्चापकृष्य तन्त्रेण होष्यामि । तत्रेदानीमापन्निमित्तं प्रतिपत्सायंहोममारभ्य चतुर्दशीसायंकालपर्यन्तममुकसंख्याकान्सायमौपासनहोमांस्तन्त्रेण व्रीहिभिर्यवैर्वा होष्यामीति सायम् ।
- ↑ ख. ग. ड. च. नः--पूर्वो ।