तथा च प्रायश्चित्तदर्पणे स्मृतिः--
"रजस्वलाऽङ्गना यस्य गर्भिणी वा यदा भवेत् । |
यज्ञशब्देनाऽऽधानादिकर्माणि गृह्यन्ते । एतच्च स्मार्तकर्मोपलक्षणम् ।
रुद्रस्कन्धभाष्ये--
"रजस्वलायां भार्यायामार्त्विज्यं श्राद्धभोजनम् । |
गर्गः--
क्षुरकर्म तथाऽऽर्त्विज्यं यात्राम(चा)भ्यङ्गमेव च । |
शाट्यायनिः--
रजस्वलापतिर्यात्रामार्त्विज्यं श्राद्धभोजनम् । |
तत्र ऋत्विजस्त्रिविधा देवभूताः पितृभूता मनुष्यभूताश्च । तत्र स्वेनैव
कर्मणि कर्मणि वृतास्ते देवभूताः । ये तु पूर्वैर्वृता एव कर्मणि प्रव-
र्तन्ते ते पितृभूताः । ये तु स्वेनैव सर्वकर्मार्थं सकृदेव वृतास्ते मनुष्य-
भूताः" इति ।
तत्रेदानीं मनुष्यभूता एवर्त्विजः । आशौचं तु पितृभूतदेवभूतानामेवर्त्विजां न मनुष्यभूतानामिति द्रष्टव्यम् । होमे पत्न्या अपि सांनिध्यमपेक्षितम् । 'पत्युर्नो यज्ञसंयोगे' इति पाणिनिस्मृत्या पत्नीशब्दस्य यज्ञसंयोग एवोत्पन्नत्वात् । 'असमक्षं तु होतव्यं दंपत्योर्नर्त्विगादिभिः ' इतिवचनाच्च ।
असंनिधाने सर्वप्रायश्चित्तं होतव्यम् । अनालम्भुका चेन्न दोषः । प्रवसति यजमाने यदाऽनालम्भुका तदा तया गृहान्तरान्तरितया न स्थातव्यं किं त्वौपासनाग्निगृहसमीपे बहिरेवेत्यग्निहोत्रहोमप्रायश्चित्तप्रकरणे व्याख्यातारः ।
श्रौतस्मार्तहोमयोः पूर्वापरभावे पक्षद्वयमाह भरद्वाजः--
"होमं वैतानिकं कृत्वा स्मार्तं कुर्याद्विचक्षणः । |
उ(औ)पासनप्रशंसा भरद्वाजसूत्रे--
"यथैश्वर्यबलादीश्वराः स्वान्देहान्परित्यज्यान्येषां देहान्प्रविश्य पुनरात्मदेहान्प्रत्यागच्छन्ति, न च तेन दुर्ज्ञायते, औपासनेऽग्नयो विनि(निवि)ष्टा औपासनौ(नो) यजमाने तस्मादौपासनान्न प्रमदितव्यं यथ ऋषभ ऋष