पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/५२०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
५१६
[विवाहः]
भट्टगोपीनाथदीक्षितविरचिता--
( परिवित्त्यादिस्वरूपम् )
 

 सोदर्यभ्रातृविषये कात्यायनः--

"देशान्तरस्थान्क्लीबांश्च शूद्रतुल्यान्सहोदरान् ।
वेश्यासक्तान्कुवृषणान्पतितानतिरोगिणः ॥
जडमूकान्धबधिरकुब्जवामनखेलकान् ।
अतिवृद्धानभार्यांश्च कृषिसक्तान्नृपस्य च ॥
धनवृद्धिप्रसक्तांश्च कामतोऽकारिणस्तथा ।
कुहकोन्मत्तरोगांश्च परिविन्दन्न दुष्यति" इति ॥

 क्लीबाः स्त्रीसंभोगविषयेऽधृष्टाः । शूद्रतुल्याः शूद्रधर्मिणः । वेश्यासक्ता वेश्यास्वभिरताः । कुवृषणाः कुत्सितवृषणाः । पतिता ब्राह्मण्याच्च्युताः । अतिरोगाः क्षयापस्मारकुष्ठादयस्तद्वन्तः । जडादयो वामनान्ताः प्रसिद्धाः । खेलका भग्नपादाः । अतिवृद्धाः प्रसिद्धाः । अभार्या नैष्ठिकब्रह्मचारिणः । कामतोऽकारिणो विवाहादिच्छया निवृत्ताः । कुहकाः परवञ्चनाय वृथोद्योगपराः । कुहकपदस्थाने कुटिल इति क्वचित्पाठः । अत्र ये सर्वात्मना विवाहानधिकारिणः क्लीबादयस्तेषु सत्सु कालविशेषमन्तरेणापि परिवेदनान्न दोषः । ये तु कालान्तरे संभावितविवाहाधिकारा देशान्तरस्थविरक्तवेश्यातिसक्तशूद्रतुल्यकृषिसक्तराजपरतन्त्रधनवृद्धिप्रसक्तकामतोकारिकुहकतस्करास्तेषु सत्सु वक्ष्यमाणकालप्रतीक्षणं कृत्वा परिवेदनं कुर्वतां न दोषोऽस्तीति हेमाद्रिः ।

 देशान्तरगतज्येष्ठसोदरविषये प्रतीक्षावधिमाह वसिष्ठः--

"द्वादशाष्टौ वा वर्षाणि ज्येष्ठभ्रातरम[१]निविष्टमप्रतीक्षमाणः
प्रायश्चित्ती भवति" इति ।

 अत्र हेमाद्रिः--धर्मार्थमर्थार्थं वा देशान्तरगतस्य ज्येष्ठस्य द्वादशवर्षं प्रतीक्षा ।

 तथा च स्मृतिः--

"द्वादशैव तु वर्षाणि ज्यायान्धर्मार्थयोगतः ।
न्याय्यः प्रतीक्षितुं भ्रात्रा श्रूयमाणः पुनः पुनः" इति ।

 धर्मार्थयोगत इति विद्याया अप्युपलक्षणार्थम् । अत एव गौतमेन 'नष्टे भर्तरि' इति प्रक्रम्य 'द्वादश वर्षाणि ब्राह्मणस्य विद्यासंबन्धेन' इति भार्यायाभर्तृप्रतीक्षणकालमुक्त्वाऽभिहितम्-- 'भ्रातरि चैवं ज्यायसि यवीयान्कन्याग्न्याधेयेष्टिषु' इति ।



  1. ङ मप्र ।