नष्टे भर्तरि कुत्र गत इत्यज्ञाते भर्तरि । अत्यन्तदूरदेशान्तरगत इति यावत् । विद्यासंबन्धेन विद्याग्रहणार्थं देशान्तरगते भर्तरि ब्राह्मणभार्यया द्वादश वर्षाणि प्रतीक्ष्य तत्क्रियादि कार्यम् । एवं ब्राह्मणः कनिष्ठो ज्येष्ठे भ्रातरि विद्याग्रहणार्थं देशान्तरगते द्वादश वर्षाणि प्रतीक्ष्य विवाहाग्न्याधानेष्टीः कुर्यात् । कार्यान्तरार्थं देशान्तरगमने तु दशाष्टौ वेति पक्षद्वयम् । अत्रेदं विवक्षितम् । देशान्तरगतस्य स्वाभिमतं कार्यं निर्वर्त्य प्रत्यागमनसंभावनानिवृत्तौ तदुत्तरकालं कनिष्ठेन दाराग्निहोत्रसंयोगे क्रियमाणे परिवेत्तृत्वरूपो दोषो न भवतीति । एवमेव विरक्तवेश्यातिसक्तादिष्वपि च कियन्तमपि कालं तथैवावस्थितेषु तत्स्वभावत्वावधारणेन विवाहसंभावनानिवृत्तौ तदुत्तरकालं कनिष्ठेन विवाहादौ क्रियमाणे न दोषः ।
अनेनैवाभिप्रायेण सुमन्तुनाऽप्युक्तम्--
"व्यसनासक्तचित्तो वा नास्तिको वाऽथवाऽग्रजः । |
आधानग्रहणं विवाहस्याप्युपलक्षणार्थम् । क्लीबादयस्तु स्वभावतः सर्वथा विवाहानर्हत्वात्कियन्तमपि कालं न प्रतीक्षणीयाः । द्वादशेति मुख्यः पक्षः । अष्टावित्यनुकल्पः ।
गर्गोऽत्र विशेषमाह--
"प्रोषितं तु प्रतीक्षेत वर्षत्रयमपि त्वरन् । |
पादं पादकृच्छ्रम्[१] ।
कार्ष्णाजिनिः--
"उन्मत्तः किल्विषी कुष्ठी पतितः क्लीब एव वा । |
अथैतत्प्रायश्चित्तम् ।
तत्र वसिष्ठः--
"परिवेत्ता च दाता च कृच्छ्रातिकृच्छ्रौ चरित्वा |
अत्रापरार्के कनिष्ठेनोढां ज्येष्ठ उद्वहेत् । अशास्त्रीयविवाहेन कनिष्ठनिरूपितभार्यात्वानुत्पत्तेर्ज्येष्ठोद्वाहयोग्यत्वात् । कनिष्ठस्त्वन्यामुद्वहेदिति ।
- ↑ ग. ङ. म् । तथा च का ।