आभ्यन्तरलक्षणान्यप्यापस्तम्बेनोक्तानि--
"शक्तिविषये द्रव्याणि प्रतिच्छन्नान्युपनिधाय ब्रूयादुपस्पृशेदिति नानाबोजानि संसृष्टानि वेद्याः पांसून्क्षेत्राल्लोष्टं शकृच्छ्मशानलोष्टमिति पूर्वेषामुपस्पर्शने यथालिङ्गमृद्धिरुत्तमं परिचक्षते" इति ।
शक्तिः सामर्थ्यम् । विषयोऽवकाशः । अस्यामृद्धिपरीक्षायां वरतत्पक्षीयाणां सामर्थ्यस्यावकाश(शे)संभवे सति यदीयकन्या तदीयाश्चेमां परीक्षामुपगच्छेयुरित्यर्थः । यत एवात्र शक्तिविषय इत्याह, अत एवेयमृद्धिपरीक्षा ज्यौतिषादिभिर्वैकल्पिकी न तु नित्या । द्रव्याणि वक्ष्यमाणानि मृत्पिण्डेषु प्रच्छन्नान्येकैकस्मिन्भाजने निधाय कन्यासमीपे च कृत्वा तां ब्रूयात्, एषां मृत्पिण्डानामेकमुपस्पृशेति । कानि तानीत्याह नानाबीजानि व्रीहियवादिबीजानि, संसृष्टानि एकस्मिन्पिण्डे प्रक्षिप्तानि, वेद्याः सौमिक्या आहृतापांसून्क्षेत्रात्सस्यसंपन्नादाहृतं लोष्टम् । अवशिष्टे प्रसिद्धे । पूर्वेषां चतुर्णामुपस्पर्शने यथायोग्यमृद्धिः । नानाबीजानामुपस्पर्शने प्रजासमृद्धिः । वेद्याः पांसूनामुपस्पर्शने यज्ञसमृद्धिः । क्षेत्रलोष्टस्पर्शने सस्यानां समृद्धिः । शकृत उपस्पर्शने पशूनां समृद्धिः । ऋद्धिनिश्चयाद्विवाहकर्तव्यतानिश्चय इत्यर्थः । उत्तमं श्मशानलोष्टं परिचक्षते गर्हन्ते शिष्टाः । जायापत्योरन्यतरस्य वा मरणलिङ्गत्वादित्यर्थ इति व्याख्यातं सुदर्शनेन ।
एतावत्कर्तुमशक्तं प्रत्या[१]हतुरापस्तम्बबौधायनौ--
"यस्यां मनश्चक्षुषोर्निबन्धस्तस्यामृद्धिर्नेतरदाद्रियतेत्येके " इति । |
यस्यां कन्यायां वरस्य मनसश्चक्षुषोश्च निबन्धो नितरां बन्धनं, यस्यामासक्त्यतिशयान्मनश्चक्षुषी निबद्धे इव तिष्ठेते इत्यर्थः । तस्यां जायायां सत्यामृद्धिर्धर्मादीनां, नेतरद्गुणदोषानुदर्शनमाद्रियेतेत्येक आचार्या ब्रुवत इति व्याख्यातं सुदर्शनेन । नेतरदाद्रियेतेत्ययं निषेधः सुप्तादिरेफलकारोपान्त्यान्तानामेव, न तु धर्मसूत्रोक्तानां सगोत्रसप्रवरसपिण्डानामपि । एतदर्थमेव धर्मसूत्रे सगोत्रादिविवाहनिषेधः कृतो न तु गृह्यसूत्रे । तथा च सगोत्रादिविवाहनिषेधोऽस्त्येव । एवं च यो निषेधः स्वसूत्रोक्तं सगोत्रादिविवाहनिषेधं बाधितुं नार्हति सूत्रान्तरोक्तं सगोत्रादिविवाहनिषेधमीक्षितुमपि नार्हति
कुतस्तं बाधितुम् । अतः सत्याषाढादिसूत्रोक्तसगोत्रादिविवाहनिषेधबाधनशङ्कैव
- ↑ क. ख. त्याहाऽऽपस्तम्बः--य ।