पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/५१४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
५१०
भट्टगोपीनाथदीक्षितविरचिता-- [विवाहः]
( कन्यालक्षणानि )
 

नीललोम्नीं वाऽरूपां वा निष्प्रभा वा । विनतां कुञ्चिताङ्गीम् । विकटां विकटजङ्घां वा । मुण्डामपनीतकेशां वा । मण्डूषिकामल्पकायामरुणदन्तां वा मण्डूकत्वचं वा । केचित्तु वामनां दग्धाङ्गां वेति वदन्ति । सांकारिकां गर्भस्थायां यस्यां माता भर्त्रस्थिसंचयनं करोति तां कुलान्तरस्य दुहितृत्वं गतां वा । [१]रतां रमणशीलां कन्दुकादिक्रीडाप्रियामित्यर्थः । ऋतुस्नातामिति केचित् । पालीं वत्सक्षेत्रादिपालिकामित्यर्थः । मित्रां बहुमित्राम् । स्वनुजां शोभना अनुजा यस्याः । केचित्तु वरजन्मसंवत्सर एव पश्चाज्जातामिति वदन्ति । वर्षकारीं वराद्वर्षेणाधिकामत्यन्तं स्रवन्तीं वा। परिवर्जयेदित्यनुषङ्गे सत्यपि पुनर्वर्जयेदिति वचनं ब्रा[२]ह्मादिषु सर्वेष्वासां प्रतिषेधार्थं दत्तेतरासामनिषेधार्थं वा । नक्षत्रनामैव नाम यासां ता नक्षत्रनामाः । एकस्य नामशब्दस्य लोप उष्ट्रमुखशब्दवत् । एवमुत्तरयोरपि विग्रहः । रोहिणी चित्रेत्येवमादयो नक्षत्रनामाः । गङ्गेत्येवमादयो नदीनामाः । शिंशुपेत्यादयो वृक्षनामाः । गर्हिता वर्जनीयाः । रेफो वा लकारो वा यासां नाम्न्युपान्त्य उपधेत्यर्थः । यथा गौरी शालेत्यादि । व्यक्तं शिष्टम् । अत्र चकारेण गर्हिता इत्यनुकर्षणादासां वर्जनीयत्वे सिद्धे वरणे परिवर्जयेदिति पुनर्वचनं व्यर्थं, न, सुग्रहत्वार्थम् । अथवा या एता रेफलकारोपान्त्या गौरी शालेत्यादयः । याश्च प्रकारान्तरेणापि रेफलकारोपान्त्याः स्मृत्यन्तरेणोक्ताः सगोत्रा समानप्रवरा पुंश्चलीति तास्ता वरणे परिवर्जयेदितिज्ञापनार्थमिति व्याख्यातं सुदर्शनेन । यद्यपि विग्रहे शोभना अनुजा यस्या इति सामान्यतः स्वनुजशब्दार्थो भाष्यकृता प्रदर्शितस्तथाऽप्यत्र स्वनुजशब्दः स्त्रीलिङ्गः सावधारण एव द्रष्टव्यः । तेन शोभना अनुजा भगिन्य एव इत्यर्थो निष्पद्यते । नातो यस्यास्तु न भवेद्धाता तां नोपयच्छेतेत्यनेन विरोधः ।

 मनुरपि--

"नोद्वहेत्कपिलां कन्यां नाधिकाङ्गीं न रोगिणीम् ।
नालोमिकां नातिलोमां न वाचालां न पिङ्गलाम् ।
नर्क्षवृक्षनदीनाम्नीं नान्त्यपर्वतनामिकाम् ।
न पक्ष्यहिप्रेष्यनाम्नीं न च भीषणनामिकाम्" इति ।

 उद्वहेदिति शेषः । कपिलां रक्ततण्डुलवर्णाम् । पिङ्गलामग्निवर्णाम् । अन्त्यां म्लेच्छनाम्नीम् ।



  1. सर्वपुस्तकेषु रातामिति पाठः ।
  2. ङ. ब्राह्मणादि ।