पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/५१३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
[विवाहः]
५०९
संस्काररत्नमाला
( कन्यालक्षणानि )
 

 अवरवर्षामिति पदच्छेदः । अवरवर्षा न्यूनवर्षा । तत्र लक्षणानि द्विविधानि । बाह्यान्याभ्यन्तराणि च ।

 बाह्यलक्षणान्याह मनुः--

"अव्यङ्गाङ्गीं सौम्यनाम्नीं हंसवारणगामिनीम् ।
तनुलोमकेशदतीं मृद्वङ्गीं स्त्रियमुद्वहेत्" इति ॥

 लोमान्युरोगतानि तनूनि सूक्ष्माणि लोमानि, तनवः केशा दन्ताश्च यस्याः सा तनुलोमकेशदती ।

 शातातपः--

"हंसगतिर्मेघवर्णा मधुपिङ्गललोचना ।
तादृशीं वरयेत्कन्यां गृहस्थः सुखवृद्धये" इति ॥

 नारदोऽपि--

"मृगाक्षी मृगगुह्या च मृगग्रीवा मृगोदरी ।
हंसहस्तिगतिर्नारी राजपत्नी भविष्यति ॥
मृदुभाषा च या नारी मृदुपादतला तथा ।
नारी कुमुदवर्णाभा राजपत्नी भविष्यति" इति ॥

 एवमन्यान्यपि बहूनि लक्षणानि सामुद्रिकतिलकहस्तसंजीवनादिसामुद्रिकशास्त्रग्रन्थेषु द्रष्टव्यानि ।

 वर्जनीयकन्या आहाऽऽपस्तम्बः--

"सुप्तां रुदतीं निष्कातां वरणे परिवर्जयेद्दत्तां गुप्तां द्योतामृषभां शरभां विनतां विकटां मुण्डां मण्डूषिकां सांकारिकां र[१]तां पालीं मित्रां स्वनुजां वर्षकारीं च वर्जयेन्नक्षत्रनामा नदीनामा वृक्षनामाश्च गर्हिताः सर्वाश्च रेफलकारोपान्त्या वरणे परिवर्जयेत्" इति ।

 बौधायनोऽधिकमाह--

"नक्षत्रनामानदीनामावृक्षनामापर्वतनामाप्रेष्यनामापक्षिनामापिशाचनामाश्च गर्हिताः" इति ।

 सुप्तां निद्रिताम् । रुदतीं रोदनकारिणीम् । निष्कान्तां मलिनां परिवर्जयेत्, अत्यन्तं वर्जयेत् । दत्तामन्यस्मै वाचा प्रतिश्रुतामुदकपूर्वं वा प्रतिपादिताम् । गुप्तामदर्शनार्थं कञ्चकादिभिरावृताम् । रक्ष्यमाणां वा दौःशील्यादिशङ्कया । द्योतां पिङ्गलाक्षीं बभ्रुकेशीं वा विषमदृष्टिं वा । ऋषभामृषभप्रधानामृषभस्येव शरीरं गतिः ककुच्छीलं वा यस्याः [ ताम् ] । शरभां शीर्णदीप्तिं सवर्गात्रेषु



  1. क. ख. ग. रातां