चतुर्थपुरुषे छन्दस्तस्मादेषा त्रिपूरुषा ॥ |
अस्यार्थमाह हेमाद्रिः--दत्तकादयो जनकपालकयोः कु[१]लप्रेतानां स्ववर्गीयैः सपिण्डनं कुर्युः । दत्तकानां पुत्र(त्रा)स्तु पितुर्दत्तकस्य पितृभ्यां जनकपालकाभ्यां स्वपितामहाभ्यां सपिण्डनं कुर्युः । तेषां पौत्राः स्वपितरं दत्तकेन पितामहेन तज्जनकेन च सपिण्डयेयुः । चतुर्थोऽपि तत्कुलस्थ एव, तेषां प्रपौत्रस्तु दत्तकस्य प्रपितामहस्य पालककुलस्थं चतुर्थं योजयेन्न वा । छन्द इच्छा । दर्शमहालयादौ तु द्वयोः पित्रोः पिनामहयोः प्रपितामहयोर्वा श्राद्धं देयम् । तत्र द्वयोः पित्राद्योः पृथक्पिण्डदानं, द्वयोद्देशेनैको वेति । श्राद्धे गोत्रं तु पालकस्य, विवाहादौ तूभयोरित्यादि प्रवरदर्पणादिषु ज्ञेयम् ।
अथ विवाहकालः ।
तत्र मदनरत्ने नारदः--
"युग्मेऽब्दे जन्मतः स्त्रीणां प्रीतिदं पाणिपीडनम् । |
पुंसां युग्मेऽब्दे स्त्रीणामयुग्मेऽब्द इत्येवंरूपे व्यत्यये । तयोर्वधूवरयोः पाणिपीडनं नाशकृद्भवतीत्यर्थः ।
पराशरमाधवीये स्मृत्यन्तरे तु--
"गर्भाधानाज्जन्मतो वा पञ्चमाब्दात्परं शुभम् । |
पञ्चमाब्दात्परमिति । पञ्चमाब्दात्परं यदयु(द्यु)ग्मं वर्षं त[२]त्र कुमारीवरणादि शुभं भवतीत्यर्थः । तेन युग्मेऽब्दे जन्मत इत्यनेन न विरोधः ।
बौधायनः--
"दद्याद्गुणवते कन्यां नग्निकां ब्रह्मचारिणे । |
यत्तु मनुनोक्तम्--
"काममामरणात्तिष्ठेद्गृहे कन्यर्तुमत्यपि । |
इति तद्गुणवति संभवति गुणहीनाय न दद्यादित्येवंपरं न तु सर्वथा गणहीननिषेधपरम् । नो चेदपि वा गुणहीनायेति बौधायनोक्तः कल्पो निर्विषयः