अथ मातृगोत्रनिर्णयः ।
तत्र स्मृतिवचनम्--
"मातुलस्य सुतामूढ्वा मातृगोत्रां तथैव च । |
अयं च मा[१]तृगोत्राविवाहनिषेधो गान्धर्वादिविवाहोढासुतानां सर्वेषामेव । ब्राह्मादिविवाहोढासुतानां सर्वेषां न, किंतु माध्यंदिनीयानामेव 'मातृगोत्रं माध्यंदिनीयानाम्' इति वचनात् । शिष्टाचारोऽप्येवमेव ।
केचित्त्वेतस्य वचनस्य निर्मूलत्वात्सर्वेषां मातृगोत्रवर्जनमित्याहुः । युक्तं तु शिष्टाचारसहकृतवचनान्माध्यंदिनीयानामेव तद्वर्जनम् ।
इति मातृगोत्रनिर्णयः ।
अथ दत्तकस्य विवाहाद्युपयोगिगोत्रादिनिर्णयः ।
तत्र यद्यपि यश्च प्रतिग्रहीत्रा जातकर्मादिभिश्चूडादिभिर्वा संस्कृतः स एकगोत्रः ।
एतदभिप्रेत्यैव--"गोत्ररिक्थे जनयितुर्न भजेद्दत्तिमः सुतः" ।
इति शास्त्रमपि प्रवृत्तम् । एतदन्यस्तु प्रतिग्रहीत्रोपनयनमात्रसंस्कृतस्तदुत्तरं प्रतिगृहीतो वा देवरातवद्द्विगोत्र एवेति व्यवस्था निबन्धकारैरुक्ता, तथाऽप्येषा व्यवस्थाऽभिवादनश्राद्धादिगतगोत्रनिर्देशार्था । विवाहे तु दत्तकमात्रेण वीजिप्रतिग्रहीत्रोः पित्रोर्गोत्रप्रवरवर्जनं कार्यम् । प्रवरमञ्जर्यादिनिबन्धेषु तन्निषेधोक्तेरिति कौस्तुभे ।
दत्तकमीमांसाकारस्तु दत्तकमात्रे गोत्रद्वयवर्जनं न, किंतु द्व्यामुष्यायणे दत्तकवि[२]शेषे [इत्याह] । तथाहि । द्विविधा दत्तकादयः। नित्यद्व्यामुष्याणा अनित्यद्व्यामुष्यायणाश्च । तत्र नित्यद्व्यामुष्यायणा नाम ये जनकप्रतिग्रहीतृभ्यामावयोरयं पुत्र इति संप्रतिपन्नाः । अनित्यद्व्यामुष्यायणास्तु ये चूडान्तैः संस्कारैर्जनकेन संस्कृता उपनयनादिभिश्च प्रतिग्रहीत्रा, तेषां गोत्रद्वयेनापि संस्कृतत्वाद्द्व्यामुष्यायणत्वं परं त्वनित्यम् । जातमात्रस्यैव परिग्रहे गोत्रद्वयेन संस्काराभावात्तस्य परिग्रहीतृगोत्रमेव । तदिदं सर्वमभिप्रेत्याऽऽह[३] सत्याषाढः--