पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/४५३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
[गोत्रप्रवरनिर्णयः]
४४९
संस्काररत्नमाला
(द्विगोत्राणां गोत्रप्रवरनिर्णयः )
 

वासिष्ठावत्सारकाश्यपेति वा । एतेऽहर्वसिष्ठाः । नक्तं कश्यपाः । एषां वसिष्ठकश्यपाभ्यां संकृतिभिश्चाविवाहः सगोत्रत्वात्कैश्चित्सप्रवरत्वादपि ।

 पारिजातधृतसंग्रहस्मृत्यर्थसारयोस्त्वन्ये षडुक्ताः । देवरातानां त्रयः । वैश्वामित्र[१]दैवरातौदलेति । एषां जमदग्निविश्वामित्राभ्यामविवाहः ।

"जमदग्निगणस्यापि विश्वामित्रगणस्य च ।
न देवरातगोत्रेण विवाहः स्यात्परस्परम्" इति संग्रहोक्तेः ॥

 बौधायनादिभिर्जामदग्न्येषु देवरातस्यापठितत्वाज्जामदग्न्यत्वं चिन्त्यमिति केचित् ।

 अन्ये तु--

"और्वस्यैवमृचीकस्य सत्यवत्यां महायशाः ।
जमदग्निस्तपोवीर्यो जज्ञे ब्रह्मविदां वरः ॥
मध्यमश्च शुनःशेपः शुनःपुच्छः कनिष्ठकः" ।

इत्युक्त्वा--

"देवैर्दत्तः शुनःशेपो विश्वामित्राय भार्गवः ।
देवैर्दत्तः स वै यस्माद्देवरातस्ततोऽभवत्" ॥

 इति हरिवंशे देवरातस्य जमदग्निसंबन्धकथनाज्जामदग्न्यत्वमुपपन्नमित्याहुः । धर्मप्रदीपे तु--"मातामहैः शुद्धजामदग्न्यैर्देवराता[२]नां न विवाहः" इत्युक्तम् ।

 धनंजयानां वैश्वामित्रमाधुच्छन्दसधानंजय्येति । एषामत्रिविश्वामित्राभ्यामविवाहः ।

 जातूकर्ण्यानां वासिष्ठात्रेयजातूकर्ण्येति । एषामत्रिवसिष्ठाभ्यामविवाहः ।

 वामरथ्यादीनां पूर्वोक्तानामत्रिपुत्रिकापुत्राणामत्रिवसिष्ठाभ्यामविवाहः । अत्रिविश्वामित्राभ्यामिति केचित् ।

 कपिलानां पञ्च । आङ्गिरसबार्हस्पत्यभारद्वाजवान्दनमातवचसेति । एषां विश्वामित्र[३]भारद्वाजाभ्यामविवाहः । न च कपिलस्य विश्वामित्रसंबन्धे मानाभावः । वैश्वामित्रं देवरातं प्रकृत्य तस्यैते कापिलेयवाभ्रवा इत्यैतरेयि(य)ब्राह्मणगतकापिलोक्तेर्लिङ्गवि[४]धया मानत्वात् । कपिलानां विश्वामित्रत्वाभावे कापिलानां वैश्वामित्रत्वानुपपत्तेः ।

 कतानां त्रयः । वैश्वामित्रकात्यात्कीलेति । एषां विश्वामित्रभारद्वाजाभ्यामविवाहः ।

 एवमिदानींतनानामपि दत्तकादीनामुत्पादकपालकयोः पित्रोर्गोत्रप्रवरावर्ज्या इति प्रवरमञ्जर्यादयः ।

५७
 


  1. ग. त्रदेव ।
  2. ड. तादीनां ।
  3. ग त्रभर ।
  4. ड. विधाया ।