पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/४५२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
४४८
भट्टगोपीनाथदीक्षितविरचिता-- [विवाहः]
(गोत्रप्रवरनिर्णयः, द्विगोत्राः )
 

वद्गोत्राणां पञ्च । आङ्गिरसबार्हस्पत्यभारद्वाजकात्यात्कीलेति । आङ्गिरसबार्हस्पत्यभारद्वाजशौङ्गशैशिरेति वा । त्रयो वा, आङ्गिरसकात्यात्कीलेति । आद्यो भरद्वाजो वा । भारद्वाजकात्यात्कीलेति । कात्याक्षिलेति वा पाठः । एषां विश्वामित्रभरद्वाजाभ्यां नान्वयः ।

 संकृतयः पूतिमा[१]षास्तण्डयः शम्बवो भैमगवाः सौ[२]पवना जानकयः सैराधा रतव्या ऋषनयो वारायणयः सहयो गाङ्गयो लौक्षयस्ताला नागहया भिल्लातयो[३] विभीतकास्तैलयः परिभवा वैयाघ्रपद्याः श्रौतायनाश्चान्द्रायणा मल्लकाः शालायना आर्षण्या हारिनियाः पौला आघ्रयः ।

इति संकृतयः ।

 तेषां त्रयः[४] । शाक्त्यसांकृत्यगौरिवीतेति । अन्त्ययोर्व्यत्ययो वा[५] । शाक्त्यगौरिवीतसांकृत्येति । आङ्गिरसगौरिवीतसांकृत्येति वा । एषां संकृतीनां वसिष्ठत्वमस्ति, सत्याषाढापस्तम्बादिभिर्वसिष्ठगणमध्ये पाठात्[६] । वासिष्ठशक्तेः पाक्षिकवरणाच्च । तेनैषां सर्वैर्वासिष्ठैरहर्वासिष्ठैर्लोगाक्षिभिश्च सहाविवाहः, सगोत्रत्वात्किंचित्प्रवरसाम्याच्च । केवलाङ्गिरो[७]भिरप्यविवाहः । बौधायनेन केवलाङ्गिरोभिर्विश्वामित्रैर्वसिष्ठैश्च सह संकृतिभिरविवाह इत्युक्तम् । केचित्तु केवलाङ्गिरोगणैर्विवाह एव सगोत्रत्वाभावाद्द्वित्रि(त्र)प्रवरसाम्याभावाड[८]च्चेति वदन्ति । प्रयोगपारिजाते तु काश्यपैरप्येषामविवाह इत्युक्तं, तत्र हेतुश्चिन्त्य इति नव्याः ।

 लौगाक्षयो दार्भायणा मैत्रवादयो द्रेहकालेयाः कापुटयः क[९]लयाः कंसपात्राश्चालकायनयो नित्यराः, तादय ओदकयः कौनामयः सौतयः सैतिकयः ष्टेभरा निशयः ष्टैषि[१०]कयः सौसुखि[११]कयः सैरन्ध्रयो वोषणयः कालकयः सौरन्ध्रयो राजबाहवोऽनश्वयो मिगुरयो राजवन्नयः सैरयः स्विरोदवाहयो राजसवकयः सौ[१२]रङ्घ्रयः पिङ्गाक्षयः काकुलयः शाकुलयो रावफालयः सैकयः सा[१३]सुधयः श[१४]रद्वन्ता औपपत्यकयः सौतपाः ।

इति लौगाक्षयः ।

 तेषां त्रयः । काश्यपावत्सारवासिष्ठेति । काश्यपावत्सारासितेति वा ।



  1. ड. माषस्त ।
  2. ड. सैपवना ।
  3. क यो बिभी ।
  4. ड. या, शक्त्य ।
  5. ड. वा । शक्त्य ।
  6. ड. त् । आङ्गिरसप्रवराच्च ।
  7. ड. रोगणैरवि ।
  8. ङ. वाच्च । प्र ।
  9. ख. करुयाः ।
  10. ग. कयाः सौ ।
  11. ड. खियः ।
  12. ख. ग. सौरन्ध्रयः ।
  13. ख. सामुव ।
  14. ड. शद्व ।