पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/४५०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
४४६
भट्टगोपीनाथदीक्षितविरचिता-- [विवाहः]
(गोत्रप्रवरनिर्णयः, अगस्तयः(८))
 

 तेषां त्रयः । वासि[१]ष्ठैन्द्रप्रमदाभरद्व[२]सो, इति वस्विति वा । आभरद्वसव्येति क्वचित्पाठः । वासिष्ठाभरद्वस्वैन्द्रप्रमदेति वा । आद्ययोर्व्यत्ययो वा ।

 पराशराः काण्डूशया वाजयो वाजिमन्तयो भैमतायना गोवालयः प्रा[३]गेहया वैकलयः प्लक्षयः कौकुचादयो हार्यश्वयः क[४]ल्पाः पनयो गोपयः[५] स्यातयो आरुणय आलुक्या वाजरयाः काच्छ्रायनाः कौमतयः कृष्णाजिनाः कापिसुखाः स्वाप्यायनयः श्वेतपू[६]पयः [७]पौष्करसादयो गर्ग्यादयस्तार्णेयाः श्रौतुहयाः सहचोलयो जेनयाः पाथेयाः कारुजायनाः का[८]र्ष्णायनाः शोकयो वा[९]र्ष्ण्यायनाः कपिश्रोता: स्कम्भिन्या माण्डिकाः शानपातयाः पटिका वधिका[१०]स्तिलपूप[११]यः साल्वायनाः क्षौमयो हर्यावयः शिवय इषीकहस्ताः ।

इति पराशराः ।

 तेषां त्रयः । वासिष्ठशाक्त्यपाराशर्येति । एषां वसिष्ठानां परस्परमविवाहः, सगोत्रत्वात्सप्रवरत्वाच्च ।

इति वसिष्ठाः ।

अथागस्त्याः(स्तयः) । (८)

 त एकादश, अ[१२]गस्तय इध्मवाहाः साम्भवाहाः सोमवाहा यज्ञवाहा दर्भवाहाः सारवाहाः पूर्णमासाः पारणिनो हिमोदकाः पाणिकाश्च ।
 अगस्तयः करम्भयः कौशल्याः सुमेधसो मयोभुवो गाधरायणाः फुलस्तयः पुलहाः ऋतवः का[१३]र्णाटा म[१४]हेन्द्राः ।

इत्यगस्तयः ।

 तेषामे[१५]कः । आगस्त्येति । त्रयो वा[१६] । आगस्त्यदार्ढच्युतैध्मवाहेति[१७] । आगस्त्यमाहेन्द्रमायोभुवेति वा ।

 इध्मवाहा विशालाद्याः स्फा[१८]लायना औपदहनयः कल्माषा दण्डयो लाव



  1. ड. सिष्ठेन्द्र ।
  2. ङ. द्वस्वि ।
  3. ग. प्रोगेहया ।
  4. ग. कल्याः ।
  5. एतदग्रे ख. पुस्तके कश्यपान्तर्गतनिध्रुवेषु धनुश्चिह्नान्तर्गतविद्यमानो ग्रन्थः पुनः प्रमादात्पतितोऽस्ति ।
  6. ड. पूरयः ।
  7. ग. पौष्णर ।
  8. ड. कार्ष्ण्याय ।
  9. क. वाष्ट्याय । ङ. वाठ्याय ।
  10. ङ. काविलपूययः ।
  11. ङ. यः शाल्वा ।
  12. ग. अगस्त्ययः ।
  13. ग. कर्णाटा ।
  14. ख. यहेद्राः ।
  15. ग. कः । अग
  16. ग. ङ. वा । अग ।
  17. ग. ति । अग ।
  18. ख. स्परालायना । ड.स्पालायना ।