पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/४३९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
[विवाहः]
४३५
संस्काररत्नमाला
(गोत्रप्रवरनिर्णयः, भारद्वाजाः(३))
 

कायनाः सिन्धवः सारावयो वाहयः । सामस्तम्बयः सोमस्तम्बयो ब्रह्मस्तम्बय आश्वलाय[१]नो मार्कण्डेयः कुक्काः सौङ्गयः ।

इति[२] भारद्वाजाः ।

 तेषां त्रयः, आङ्गिरसबार्हस्पत्यभारद्वाजेति ।

[ अथ कपयः ।]

 कपयः स्वस्तितरवो बिन्दवो दण्डिनो दिक्ष्वशक्तयः पतञ्जलयो भूयसिनस्तैरेवयो वैतकय ऊर्ध्वा राजकेशिनः कलसिनः कण्वाः करीतपो वान्यायना आमावास्याय[३]नाः कात्यायनाः कषेतराः स्वेदतरा जलसिञ्चयः कु[४]सीद[५]रयः सौज[६]टयः सामवयः सलयः क्षण्याः सावस्थायनयः ।

इति कपयः ।

 तेषां त्रयः । आङ्गिर[७]सामहय्यवौरुक्षय्येति । आङ्गिर[८]सामहय्यौरुक्षय्येति वा पाठः । आङ्गिर[९]सामहीयवौरुक्षयसेत्याश्वलायनपाठः ।

 केचित्तु--आङ्गिरसबार्हस्पत्यभारद्वाजेति । आङ्गिर[१०]सबार्हस्पत्यकाषेयेति पक्षद्वयमाहुः ।


[ अथ गर्गाः ।]

 गर्गाः साम्भरायणाः सस्वीनयो माधरायणा बाहुलयो भ्राष्ट्रकृतो भ्राष्ट्रधृतो भ्राष्ट्रबिन्दवः क्रो[११]ष्टकयः सौयामुना भ्राजिनाक्षयो होत्रापचयः सत्याप[१२]चया[१३] वात्स्यतरायणाः साम्भादा वत्सचतुरायणाः काण्वायनाः सांख्यायनाः कानायनाः कैवलायनाः कोण्डायना भारमता पैशङ्गाः पैल्वकायना विश्वायवकायनाः क्रौलिनो मधुरावहाः सा[१४]परिवारा वालाकयः शालायनयः साहनयो माथुरा[१५]चरा ऐन्द्रालयो लोपकृतो[१६] वांसायनाः शारायणाः श्यामायना रामिनो(णो?) भाङ्गिनः कारिण आस्मिनः क्रीडिनो राचारता भाल[१७]विद औपमर्कटाः कार्षायनाः कौञ्जपयः शालङ्कायनाः कोलास्त्राः श्यामाः ।

इति गर्गाः ।



  1. ग. यना मा । ड. यनयो मा ।
  2. क. ति । भर ।
  3. क. ख. यनः क ।
  4. क. कुशीददयः ।
  5. ड. दतर ।
  6. क. जढयः ।
  7. ड. रससा ।
  8. ड. रसपा ।
  9. ङ. रससा ।
  10. ङ. रबा ।
  11. क. क्रोष्ट्रक्रयः । ख. क्रोष्ट्रकयः ।
  12. ख. पश्चयो वा ।
  13. ड. या वत्पात ।
  14. ड. सांपारि ।
  15. ड. राचारा ।
  16. ख. तो वासा ।
  17. ख. विद्य औ ।