तेषां त्रयः । आङ्गिरसशैन्यगार्ग्येति । भारद्वाजगार्ग्यशैन्येति वा । सैन्येति क्वचित्पाठः । पञ्च वा प्रवराः, आङ्गिरसबार्हस्पत्यभारद्वाजशैन्यगार्ग्येति । आङ्गिरसशैन्यगार्ग्येति वा । तित्तिरः कपिभुवः खण्डिताः । इत्येतेषां गर्गाणां त्रयः, आङ्गिरसशैन्यगार्ग्येति । आङ्गिरसतैत्तिरकापिभुवेति वा ।
[ अथ रौक्षायणाः ]
रौक्षायणाः कपिलाः शबलाः शिफिला विभिण्डयः कौथुमा अग्निजिह्वाः कर्णाः सुताः ।
इति रौक्षायणाः ।
तेषां पञ्च । आङ्गिरसबार्हस्पत्यभारद्वाजवान्दनमातृवचसेति । त्रयो वा । आङ्गिरसवान्दनमातृवचसेति । आत्मभुवां पञ्च । आङ्गिरसबार्हस्पत्यभारद्वाजमा[१]त्त्रवरा[२]त्मभुवेति । अयं गणः क्वचित् । एषां भारद्वाजाङ्गिरसां परस्परमविवाहः । व्रियमाणतया सत्तया वा भरद्वाजानुवृत्तेः सगोत्रत्वात्प्रायेण द्विप्रवरसाम्याच्च ।
इति भरद्वाजाः ।
केवलाङ्गिरसः षट्, हरिताः कुत्साः कण्वा रथीतरा विष्णुवृद्धा मुद्गलाश्च ।
[ अथ हरिताः । ]
हरिताः शङ्खदर्भयः सौभा[३] मादा नैयगवा मतायवा वालोदरा महोदरा नैमिश्रयो मिश्रोदकाः कौतपाः करीषवः कौलयः पौलयः पोटलयः पौटला भ[४]त्सा मांधातवो माण्डकारयः खाण्डायना माण्डमालयो[५] गवेरणयो मत्स्यमालयो गाणगारयो मद्रगारयः कुत्सा हंसा हस्तिवायसाः पैङ्गलाः पिङ्गाः पालाशिनो दा[६]दला हास्तिनः कौमारहारिता इलाः ।
इति हरिताः ।
तेषां त्रयः । आङ्गिरसाम्बरीषयौवनाश्वेति, मांधात्राम्बरीषयौवनाश्वेति वा ।
कुत्सानां त्रयः । आङ्गिरसमांधात्रकौत्सेति ।