पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/४००

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३९६
[नैमित्तिकानि कर्माणि]
भट्टगोपीनाथदीक्षितविरचिता--

सि० धिष्व' । 'ॐ नवो नवो भवति० दीर्घमायुः । 'ॐ यमादित्या अशु० स्य गोपाः' इति चतसृभिश्चन्द्रमसमुपतिष्ठते ।

 मयि दक्षक्रतू इति मन्त्रस्य प्रजापतिर्दशक्रतू यजुः । जपे विनियोगः। 'ॐ मयि दक्षक्रतू' इति जञ्जभ्यमानो जपति । इदं च पुरुषार्थं कर्मार्थं च । सर्वेषामेतद्भवति । श्रौतेऽपीदं कार्यम् ।

"सिगसिनसि वज्रो नमस्ते अस्तु मा मा हि सीः"

 इत्यन्यस्योत्तरीयवाससः प्रान्तेनाधिक्षिप्तो जपति । पुनः पुनर्जपतीतिवचनं कर्मभेदबोधनार्थम् ।

 ततस्तस्य वाससस्तन्तुमाच्छिद्य मुखवातेन तूष्णीमेव प्रध्वंसयेत् ।

"ॐ ये पक्षिणः प्र[१]वदन्ति बिभ्यतो निर्ऋतैः सह ।
ते मा शिवेन शमेन तेजसोन्दन्तु वर्चसा" ।

 इति पक्षिणा तन्मूत्रेण पुरीषेण वोपरिक्षिप्तो जपति । तद्वस्त्रादिना प्रमृज्याद्भिस्तत्स्थानं प्रक्षालयीत ।

"ॐ दिवो नु मा बृहतो अन्तरिक्षादपा स्तोको अभ्यपतच्छिवाय समिन्द्रियेण मनसाऽहमागां ब्रह्मणा गुप्तः सुकृता कृतेन" । इत्यविज्ञातेनोदकबिन्दुनोपरिक्षिप्तो जपति ।
" ॐ यद्वृक्षाग्रादभ्यपतत्फलं यद्वाऽन्तरिक्षात्तदु वायुरेव । यत्रा वृक्षस्तनु वै यत्र वास आपो बाधन्तां निर्ऋतिं पराचैः" । इति यदि फलमविज्ञातमुपरि पतेत्तदा जपति ।

"ॐ नमः प[२]थिपदे वातेषवे रुद्राय नमो रुद्राय प[३]थिषदे" ।

 इति चतुष्पथमवक्रम्य जपति ।

"ॐ नमः पशुपदे वातेषवे रुद्राय नमो रुद्राय पशुषदे" |

 इति शकृद्धताववक्रम्य जपति ।

"नमः सर्पसृते वातेषवे रुद्राय नमो रुद्राय सर्पसृते"

 इति सर्वाधिष्ठानलङ्घने जपति ।

"ॐ नमोऽन्तरिक्षसदे वातेषवे रुद्राय नमो रुद्रायान्तरिक्षसदे"।

 इति यदि मण्डलीभूतो वात आगच्छेत्तदा जपति ।

"ॐ नमोऽप्सुषदे वातेषवे रुद्राय नमो रुद्रायाप्सुषदे" ।


  1. क. पतयन्ति ।
  2. ख. ग. घ. ङ. पृथिविषदे ।
  3. ख. ग. घ. ङ. पृथिविषदे ।