व्याहृतिहोमान्तं कुर्यात् । आज्यपर्यग्निकरणकाले बीजत्रयस्यापि पर्यग्निकरणमिति विशेषः ।
ततो व्याहृतिहोमान्त आसादितं करवीरबीजत्रयं संस्कृताज्येनाभ्यक्तं कृत्वा'ॐ अव जिह्व निजिह्विकाव त्वा हविषा यजे यथाऽहमुत्तरो वदाम्यधरोवदसौ [१]वद स्वाहा' इति तेन बीजत्रयेण हस्तेनैकामाहुतिं जुहोति । अग्नय इदं न मम । असावित्यस्य स्थाने प्रथमया विभक्त्या वादिनो नाम्नो ग्रहणम् ।
ततोऽङ्गहोमादि स्विष्टकृदादि वा होमशेषं समापयेत् । अत्राऽऽज्येनैव स्विष्टकृत् ।
- ततः-- 'ॐ आ ते वाचमास्याददे मनस्या हृदयादधि । अङ्गादङ्गात्ते वाचमाददे यत्र यत्र निहिता वाक्तां त आददे । रुद्रनीलशिखण्डवीरकर्मणि कर्मणीमं मे प्रतिसंवादिनं वृक्षमिवाशनिना जहि । अधोवदाधरोवदाधस्ताद्भूम्यावद अधोप्रतिरिव कूटेन निजस्य निहतो मया तत्सत्यं यदहं ब्रवीम्यधरो मत्पद्यस्वामुकशर्मन्'
इति वादिनमभिवीक्षमाणो जपति । अत्राप्यसौशब्दस्थाने वादिन एव नामग्रहणम् ।
- ॐ हिरण्यबाहुः सुभगा जिताक्ष्यलंकृता मध्ये देवानामासीनाऽर्थं मह्यमवोचत्स्वाहा' ।
इति सभायां संभावितं पुरुषमासीनं क्वचित्प्रदेश उपस्पृशञ्जपति ।
- 'ॐ मम परे ममापरे ममेयं पृथिवी मही । ममाग्निश्चेन्द्रश्च दिव्यमर्थमसाधयन्निव' ।
[ इति ] सभ्यान्पुरुषानभिवीक्षते । एवं कुर्वाणः प्रतिवादिनमभिजयत्येव ।
अथ नैमित्तिकानि कर्माणि ।
- तत्रेदं गृह्यम्--'दर्शे चन्द्रमसं दृष्ट्वा' इत्यादि ।
सिनीवाल्याख्याममावास्यायाममावास्यासमीपवर्तिन्यां प्रतिपदि वा चन्द्रमसं दृष्ट्वा कर्मार्थं शुद्धोऽप्यप आचम्याञ्जलिनाऽपो धारयमाणः, आप्यायस्व सन्त इत्यनयोरग्निर्ऋषिः । सोमो देवता । प्रथमस्य गायत्री । द्वितीयस्य त्रिष्टुप् । नवो नवो यमादित्या इत्यनयोर्विश्वे देवा आदित्यास्त्रिष्टुप् । चन्द्रमस उपस्थाने विनियोगः । 'ॐ आप्यायस्व समेतु ते० संगथे' । 'ॐ सन्ते पया
- ↑ 'वदा' इति क. पुस्तकशोधितपाठः ।