इति नदीमुदकवतीमवगाह्य जपति ।
"ॐ नमस्तत्सदे वातेषवे रुद्राय नमो रुद्राय तत्सदे" । |
इति पूजनीयं संनिहितदेवताकं देशं यज्ञभूमिं वृक्षं पुराणं वाभिलक्षितमाक्रम्य जपति ।
यदि सूर्योदयकाले स्वापं कुर्यात्तदा संपूर्णं तं दिवसमनश्नन्वाग्यतस्तिष्ठेत् । इदमेव प्रायश्चित्तम् । श्रान्तस्य व्याधितस्य च नेदं भवति ।
यद्यस्तमयकाले स्वापं कुर्यात्तदा तां संपूर्णां रात्रिमनश्नन्वाग्यतस्तिष्ठेत् । अशक्तस्योभयत्रानशनमात्रं प्राणायामो वा । समाप्ते यज्ञे यूपं नोपस्पृशेत् । अनूबन्ध्याया अकरणेऽवभृथादारभ्य नोपस्पृशेत् । यदि स्पृशेदेष ते वायो, इति पठेत् । एतच्चैकयूपस्पर्शे । द्वयोर्यूपयोः स्पर्शे तु--एतौ ते वायू इति पठेत् । बहूनां यूपानां स्पर्शे तु-- एते ते वायव इति पठेत् ।
"चैत्यवृक्षश्चितिर्यूपश्चण्डालः सोमविक्रयी । |
स्नानमादौ कृत्वाऽनन्तरं पाठः कार्यः । ब्राह्मणग्रहणं क्षत्रि[१]यादीनामुपलक्षणम् ।
"अनिहूतं परिहूतं परिष्टुत शकुनैरुदितं च यत् । |
इतीष्टं देशं प्रत्यध्वानं गन्तुमारभमाणो जपति ।
"ॐ उद्गातेव शकुने साम गायसि ब्रह्मपुत्र इव सवनेषु श ससि । |
इत्यनिष्टं शकुनमुपलभ्य तद्दोषशमनार्थं जपति । साम गायसीतिलिङ्गाद्वाक्श्रवण एवेदमित्येके । अस्य स्तुत्यर्थत्वात्सर्वत्रेत्यन्ये ।
यदेतद्भूतानीत्यस्य सोम एकसृको भूरिगनुष्टुप् जपे विनियोगः । "ॐ यदेतद्भूतान्यन्वाविश्य देवीं वाचं वदसि । द्विषतो नः परा वद तान्मृत्यो मृत्यवे नय"
इत्येकसृकं वाश्यमानं प्रति जपति । सृगालो मृगशब्दं कुर्वाण एकसृगित्युच्यते ।
ततोऽग्रे अग्निना संवदस्वेत्यस्य सोमोऽग्निरेकपदा भूरिग्गायत्री भूरिगनुष्टुब्वा यजुर्वा । उल्मुकनिरसने विनियोगः "ॐ अग्ने अग्निना संवदस्व मृत्यो मृत्युना संवदस्व" । इत्यधस्तादुपरिष्टाच्चाऽऽदीप्तमुल्मुकं यत्र शब्दं करोति तां दिशं