पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/३९४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३९०
[स्नातकधर्माः]
भट्टगोपीनाथदीक्षितविरचिता--

आस्ययुग्वह्निबीजं च जविश्वेति वसो तथा ।
ममाभिधरणीबीजं शिरोयुक्तं षितां तथा ।
कन्यां भार्यां प्रयच्छेति द्विठस्त्वन्ते प्रकीर्तितः" ॥

 इतिवचनसिद्धं मन्त्रं ततो जपेत् । अन्तेऽपि कामबीजप्रणवपुटितश्चेच्छीघ्रफलप्रदः । जलाशयनिकटस्थवटच्छायायां प्रत्यङ्मुखश्चत्वारिंशत्सहस्रं जपेत् । तत्राऽऽदौ पुरश्चरणं पञ्चात्मकं त्र्यात्मकं वा कृत्वाऽनन्तरं तथैव प्रयोगं कुर्यात् । एतदर्थं विवाहगौर्यादिमन्त्रप्रयोगोऽपि द्रष्टव्यः ।

 आग्नेये यजुर्विधाने--

"विश्वकर्मन्हविषेति सूचीं लौहा दशाङ्गुलाम् ।
कन्याया निखनेद्द्वारि साऽन्यस्मै न प्रदीयते" इति ॥

 विश्वकर्मन्हविषा वावृधानः स्वयं यजस्वेत्येका, ऋक् । अस्या अग्निर्ऋषिः । त्रिष्टुप्छन्दः । विश्वकर्मा देवता । चतुश्चत्वारिंशत्सहस्रं जपः ।

इति संस्काररत्नमालायां संक्षेपेण स्नातकधर्माः ।

इत्योकोपाह्वश्रीमत्साग्निचिद्वाजपेयपौण्डरीकयाजिसर्वतोमुखया-
जिगणेशदीक्षिततनूजभट्टगोपीनाथदीक्षितविरचितायां
सत्याषाढहिरण्यकेशिस्मार्तसंस्काररत्नमा-
लायां दशमं प्रकरणम् ॥ १० ॥

अथैकादशं प्रकरणम्

अथ समावृत्तस्य केचन काम्यविधयः ।

 योऽयममात्यमन्तेवासिनं कर्मकरं वा कामयेत नित्योऽनपक्रमणीयो मम स्यादिति स पूर्वाह्णे स्नातः शुद्धवस्त्रः कृत्स्नमहरनश्नन्ब्राह्मणेनैव संभाषमाणो निशायामष्टमे मुहूर्ते प्रदोषान्ते वा प्राङ्मुख उपविश्याऽऽचम्य प्राणानायम्य देशकालौ संकीर्त्य ममामात्यस्यान्तेवासिनः कर्मकरस्य वाऽनपक्रमणीयत्वसिद्ध्यर्थं गृह्योक्तं कर्म करिष्य इति संकल्प्य यदुद्देश्यकमनपक्रमणीयत्वं तस्याऽऽवासं गत्वा जीवतः पशोः शृङ्गं उदकं गृहीत्वा 'ॐ परि त्वा गिरे इहमिदं परिभ्रातुः परिप्वसुः परि सर्वेभ्यो ज्ञातिभ्यः परिषीदः क्लेष्यसि शश्वत्परिकुपिलेन संक्रामेणाविच्छिदाकुलेन परिमीढोऽसि परिमीढोऽस्थूलेन' इति मन्त्राभ्यां शृङ्गच्छिद्रेणोदकं प्रस्रावयन्नावसथं त्रिः प्रदक्षिणं परिक्रामति । सकृन्मन्त्राभ्यां